________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
सज्जनदंडनायक कथा
॥४७॥
हस्तिस्थेनापि यत्नेन, प्रतिक्रान्तिस्तदा कृता । तत्सैन्यमिलनायैवा-ऽन्यथा तत् शिथिलीभवेत् ॥१३॥ प्रतिक्रमणवेलायाः, व्यतिपातोऽपि सम्भवी । एषोऽपि हेतुः सर्व हि, कार्य काले कृतं शुभम् ॥ १४ ॥ अथ युद्धं महजातं, सैन्ययोरुभयोरपि । गजाऽश्वस्थपत्त्याद्याः, यथा स्वं स्वं डुढौकिरे ॥१५॥ सज्जनेन तथा युद्ध, तथा चक्रे यथा क्षणात् । समस्तं यवनानीकं, काकनाशं ननाश तत् ॥१६॥ सजनस्य परं घाताः, दश लग्नास्तदा तनौ । उत्पाट्य नीतो देव्यग्रे, साऽप्येनं प्रत्यचीकरत् ॥ १७ ॥ दुकुलाञ्चलवातेन, तस्य वातमवीजयत् । आह्वयच्च महावैद्यान , कृतास्तैश्च प्रतिक्रियाः॥१८॥ देव्यग्रे सुभटैरुक्तं, स्वामिन्यस्य विमुच्यते । रात्रौ 'एगिदिया बेइन्दिआ इत्याद्यमृचिवान् ।। १९ ॥ प्रातयुद्धं तथा चक्रे, यथा कोऽपि चकार न । देव्याह सज्जनं चक्रे, विरुदै किमिदं भवान् ? ॥२०॥ सोऽप्याह स्वामिनि ! स्वीयं, रात्रौ कार्यं कृतं मया । प्रातस्त्वदीयं येनेदं, तवाऽऽयत्तं वपुर्मम ॥ २१ ॥ ममायत्तं मनस्तेन, स्वकार्य निर्मितं मया । श्रुत्वेति तं प्रशंसन्ति, धर्मे दाढयमहो ! कियद् ? ॥ २२॥ जगाम पत्तनं देवी, सजनोऽपि पटूकृतः । वैद्यैः क्रमेण श्रीधम्मै, राजकार्य च स व्यधात् ॥ २३ ॥ सङ्कटे पतितेऽप्येवं, ये न मुञ्चन्ति निश्चयम् । तेषां हस्तगतैव स्यात्, निर्वाणसुखसन्ततिः ॥ २४ ॥ अन्यथा वा प्रतिक्रान्ति, पञ्चधा ब्रुवते बुधाः। दिवारात्रौ तथा पक्षे, चातुर्मास्यां च वत्सरे ।। २५ ॥ सपडिकमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥१॥ समणेन सावएण य, अवस्सकायव्वयं हवइ जम्हा । अंतो अहो निसस्सा, तम्हा आवस्सयं नाम ॥२॥
॥४७॥
For Private and Personal Use Only