________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器端瑞端端端端端涨涨涨涨涨器端端端端端端端端端柴柴蒸發
भा कार्षीः प्रतिषेधं त-मान्यथा भवितव्यता । श्रेष्ठधपि प्राह यद्येवं, तदा शृणुत मद्वचः॥ २२ ॥ पूर्व श्रीजिनबिम्बस्य, कुरुध्वमभिषेचनम् । पश्चान्ममेति तेऽप्येव-मकार्षहर्षपूरिताः ॥ २३ ॥ एवं च प्राप्तसाम्राज्यः, स श्रेष्ठी सपरिच्छदः । नृपसौधमलश्चक्रे, पुरस्त्रीकृतमङ्गलः ॥ २४ ॥ न्यस्य सिंहासने मुख्ये, जिनेन्द्रप्रतिमामसौ । स्वयं:तत्पादपीठस्थो, राजकार्याण्यसाधयत् ॥ २५ ॥ रत्नवृष्टिं तदा चक्रुः, सम्यग्दृष्टिसुरा वराः । एकछत्रं जिनस्यैव, स राज्यं समसूत्रयत् ॥ २६ ॥ अकरोदकरं लोकं, धर्मकर्मणि कर्मठम् । सर्वत्राऽपि जिनाज्ञाऽभूत् , यथा राजा तथा प्रजाः ॥ २७॥ स पञ्चशतसंख्यानि, जिनचैत्यान्यचीकरत् । स्वर्णरत्नमयीस्तेषु, प्रतिभाश्च न्यवीविशत् ॥ २८॥ अखण्डितस्वनियमो, जिनाज्ञामप्यखण्डयन् । अखण्डं स चिरं राज्यं, चकार जिननिश्रया ॥ २९॥
इति नियम्य परिग्रहसागरं, स नृपतिः पदमव्ययमाप्तवान् । कुरुत तेन परिग्रहनिग्रहं, सपदि यमपीच्छथ चेत् सुखम् ॥ ३०॥
इति श्रीमुद्रित-उपदेशसप्तकावृत्तित उद्धृता
विद्यापतिनृपकथा सम्पूर्णा.
२६ सामायिकव्रतोपरि केसरीचौरकथा सामायिकं स्यात्समताविहीन, निरर्थकं भव्यजनास्तदेतत् ।
For Private and Personal Use Only