________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं हि पुण्यविषवे, परीक्षा युज्यते सताम् । बाह्यवस्तुपरीक्षासु, मोदते न मनो मम ॥ ३७ ॥
इत्थं तदुक्तितः प्रीतः प्रसादं स्फीतमातनोत् । तस्मै सपादलक्षीय - क्ष्मापाय च स भूमिराट् ॥ ३८ ॥
एवं पञ्चाऽऽराधयन्पुण्धवेलाः, यावज्जीवं सत्यभाषां च जल्पन् । जैनं जाग्रच्छाशनं भूरिकालं चक्रे श्रेष्ठी श्रीजगत्सिंहनामा ॥ इति श्रीमुद्रित - उपदेश सप्ततिकावृतितः उद्धृता श्री जगतसिंहकथा संपूर्णा.
२५ सन्तोषोपरि श्री विद्यापतिनृपकथा
परिग्रहप्रौढशिलावलम्बिनः, पतन्ति संसारमहाम्बुधौ जनाः ।
सन्तोषवत्रेण विभिद्यतां पुन - स्तरन्ति विद्यापतिवत्सुमेधसः ॥ १ ॥
पोतनाख्ये पुरे राजा, शूरः शूरपराक्रमैः । श्रेष्ठी विद्यापतिस्तस्य भार्या शृङ्गारसुन्दरी ॥ १ ॥
स्व तमेकदा लक्ष्मी - स्वाच दशमे दिने । अहं यास्यामि : हे वत्स !, चिरात्वं मुत्कलाय्यसे ।। २ ।। प्रबुद्धः सोऽपि भार्यायै, तं वृत्तान्तं न्यवेदयत् । लक्ष्मीनाशे कथं कार्य – मिति चिन्तातुरः पुनः ॥ ३ ॥ विशुद्धबुद्धिः साऽप्याह, यद्येवं सकलाऽपि सा । व्ययनीया सुपात्रादा — अन्यथाऽपि हि यास्यति ।। ४ ।। अथ व्ययितुमारेभे स श्रेष्ठी सकलं धनम् । तथाऽपि वर्द्धते किन्तु, कूपोदकमिवाऽन्वहम् ॥ ५ ॥ यथा यथा व्ययस्तस्य गेहे वृद्धिस्तथा तथा । दीयमानोऽपि भारत्याः, कोशः किं नाम हीयते १ ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only