________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
染染带染染染染染张茶茶器茶茶陈晓陈染染带来张晓
दिने द्वितीये सम्भाल्य, गृहोपस्करमाह सः। अब्ध्यष्ट ८४ लक्षसंख्या मे, सन्ति वित्तस्य भूपते ! ॥ ७॥ एप प्रागुक्तसंख्यातो-धिकोक्त्या सत्य एव यत् । प्रायः स्वद्रव्यसंख्यायां, स्तोकः स्यात्सत्यवादकः ॥ ८॥ ततम्नष्टेन भूपेन, लक्षषोडशकार्पणात् । कृतः कोटीवजः श्रेष्ठी, सत्यस्याहो ! फलं कियत् ? ॥९॥ एकदा दर्शयामास, रत्नं तस्यार्कसोदरम् । भूपः स्वकोशादानाय्य, तं प्रत्येवमुवाच च ॥१०॥ एतस्य सदृशं रत्नं, किमन्यद्विद्यते भुवि ? । सोऽप्याह किं धरामध्ये, पातसाहद्वयं भवेत् ॥ ११ ॥ तद्वचोरभिंतस्तस्या-ऽर्पयत्तद्रत्नमुत्तमम् । न्यासार्थ नहि भेदः स्याम् , द्वयोः प्रीतिः स्थिरान्तरा ॥ १२ ॥ इति प्रीत्या तयोः काले, कियत्यपि गते सति । केनापि हेतुना राजा, रुष्टस्तं प्रत्यथैकदा ॥१३॥ सम्पदो महतामेव, तेषामेव स्युरापदः । नीचास्ताग्विधा एव, चन्द्रधिष्ण्यनिदर्शनात् ॥ १४ ॥ शीर्पस्य पुष्पाभरणं, मुण्डनं च विधीयते । न चयापचयौ स्यातां, ध्रुवोः केशेषु कर्हिचित् ।। १५ ॥ ततस्तं श्रेष्ठिनं भूपो, गुप्तिवेश्मन्यधारयत् । स्वकीय तस्य रक्षार्थ, सेवकं च न्ययोजयत् ॥ १६ ॥ तदा च श्रेष्ठिनः पश्च–वेलाधर्मव्यतिक्रमः । दोयाकृन्न तु माप-स्थापनात्परतन्त्रता ॥१७॥ सेवकस्य ततस्तस्य, रहः सौवर्णटकम् । दापयित्वा निजाः पुण्य-वेलाः साधितवानसौ ॥१८॥ यतो भवे भवे लक्ष्मीः , पाप्यते भववृद्धिकृत् । न तु श्रीधर्मसामग्री, क्षयमेति भवो यथा ॥ १९ ॥ इत्येकविंशतिदिनां-स्ताबटङ्ककदापनात् । स्वकृत्यान्यकरोद्धा -दरो लोकोत्तरो ह्यसौ ॥२०॥ प्रसन्नोऽय सुरत्राण-स्तं निजाङ्गविभूषणैः । पञ्चवर्णदुकूलैश्च, पञ्चशः पर्यधापयत् ॥ २१॥
落落落晓晓晓荣荣盛馨茶蒸茶器茶萃茶茶密密密游带路器
For Private and Personal Use Only