________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोखं तस्यान्तिके मुक्त्वा, काकनाशं ननाश सः । भटेश्चौरौऽयमेवेति, ज्ञातं तद्वस्तुदर्शनात् ॥२०॥ निविलम्ब निविचारं, शूलायामधिरोपितः । स तैरिति विडम्ब्यन्ते, कर्मभिः के न जन्तवः ? ॥२१॥ अथ श्रेष्ठी सुताशोकं, कृत्वा प्राप्तस्तदन्तिकम् । यावत्तावदयं प्राणै-रुज्झाञ्चके खलैरिव ॥२२॥ दृष्ट्वा तादृगवस्थं तं, तान् जगाद स दुःखितः । भवद्भिः किं कृतं ? भो भोः !, जामातैव हतो मम ॥ २३॥ तदुःखदुःखितास्तेऽपि, तत्स्वरूपे निवेदिते । सर्वे स्वस्वगृहं प्राप्ताश्चिन्तयन्तो भवस्थितिम् ॥ २४ ॥ जामातुस्तनयायाश्च, तादृक् तत्कम्मवेशसम् । विज्ञाय रतिसारोऽभृद्, धर्मसारस्ततः परं ॥ २५॥ अन्यदा सुयशास्तत्र, चतुर्ज्ञानी समागतः । श्रेष्ठी तद्देशनां श्रुत्वा-पृच्छत्याच्यभवं तयोः ॥ २६ ॥ ज्ञानी प्राह पुरा शालिग्रामेऽभूत्काऽपि दुर्गता । महेला बालकसुता, कुटुम्बाद्यैः परिच्युता।। २७ ॥ सा महेभ्यगृहे नीच-कर्माण्युदरपूर्तये । करोति वत्सरूपाणि, चारयत्यङ्गजः पुनः ॥२८॥ अन्यदावत्सरूपाणि, चारयित्वा सुतो गृहे । प्राप्तस्तजननी क्वापि, कार्ये सक्ता तु नागता ॥ २९ ॥ बभूव महती वेला, स बालः क्षुधितो भृशम् । गृहप्राप्तां च तामृचे, साधिक्षेपमिदं वचः ॥ ३०॥ शूलायां त्वमरे रण्डे !, क्षिप्ताऽभूः किमियच्चिरम् ? । बुभुक्षापीडितं मां कि, न जानासि ! विचेतने ! ॥३१॥ तथैव साऽपि प्रत्यूचे, छिन्नौ किं ते कराविमौ ! । यदत्र सिकके भोज्य, त्वदर्थ सञ्जितं मया ॥ ३२॥ कस्मान्न जगृहे ? मूर्ख !, दोषः को मेऽवशत्वतः । एवं ताभ्यां चिरं चक्रे, कलहो बहुलस्तदा ॥ ३३ ॥ अनालोचिततत्पापी, तो मातृतनयो तव । सुताजामातरौ जातो, तदिदं भवनाटकम् ॥ ३४ ॥
For Private and Personal Use Only