________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जननी-पुत्र
जेन कथा
र्णवः ॥४ ॥
佛路路路路路绕绕绕绕绕密婆张密密密染整张盛豪
कियत्यपि व्यतिक्रान्ते, भूभागे तस्य वाहनम् । आहन्यमानं कल्लोले-भङ्गमाप क्षणादपि ॥६॥ अवाप्य फलकं चैकं, बन्धुदत्तस्तदाम्बुधिम् । लग्नस्तरीतुं वातेन, प्रेरितश्च तटेऽलगत् ॥७॥ निभालयति दिक्चक्र, यावदुद्धान्तलोचनः । तावत्तनगरोद्याने, प्राप्तमात्मानमक्षत ॥८॥ अहो ! दैवगतिः केयं ?, लज्यते यत्र मानवैः । ईदृक्षोऽहं कथं गन्ता ?, तत्र श्वशुरमन्दिरे॥९॥ स्त्रीपीहर नरसासरउ, संजमियां सहवास । एत्रिण्हइ अलखामणां, जइ को करई तपास ।। ९॥ अतर्कितानि सौख्यानि, दुःखान्यपि शरीरिणाम् । भवति तदलं क्लेश-हेतुना चिन्तयाज्नया ॥१०॥ विचिन्त्येति स्थितो देव-कुले ज्ञापितवानसौ । श्वशुरस्य गृहे स्वस्य, तत्र प्राप्त्यादि केनचित् ॥११॥ श्रुत्वा जामातृवार्ती तां, मनासन्तापकारिणीम् । आः! किमेतदिति श्रेष्ठी, प्रोचरन सहसोत्थितः ॥ १२ ॥ यावत्तदन्तिके याति, तावदस्तङ्गतो रविः । उत्सूरत्वात्कुटुम्बेन, वारितः स्वगृहे स्थितः ॥ १३ ॥ ब्राहये मुहूर्त जामातृ-मिलनाय चचाल सः । आदाय वस्त्राभरण-प्रभृत्यवसरोचितम् ॥ १४ ॥ सौवर्णवलयव्यूहः, शोभमानभुजालता । स्वपति वीक्षितुं बन्धु-मत्यपि प्रस्थिता सह ॥१५॥ श्रेष्ठिनः पृष्टिगामिन्या-स्तस्याः कोऽपि करौ तदा । चिच्छेद तस्करो लुब्धः, प्राकृतं कर्म नान्यथा॥ १६ ॥ साते तुमुले तत्र, प्राप्तास्तलबरादयः। ज्ञातस्वरूपास्तच्चौर-पदैरेव दधाविरे ॥ १७ ॥ श्रेष्ठी पश्चाद्गतो गेहे, प्रभूतो मिलितो जनः । उच्चरन्कर्म कर्मेति, विदधे शोकसङ्कथाम् ॥ १८ ॥ इतश्च चौरोऽप्यासन-प्राप्तांस्तान्वीक्ष्य विह्वलः । तद्देवकुलमायातः, सुप्तः प्रागस्ति यत्र सः ॥ १९ ॥
能继游游游染带染蒂蒂港举參參參參參參晓陈晓饰带带
॥४१॥
For Private and Personal Use Only