________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
धर्मराजकथा
जेन कथा
णेव: ॥४०॥
अबोचन्सूरयो राजन् !, अत्रैव तव पत्तने । धनदत्त इति श्रेष्ठी, तस्य भार्या धनेश्वरी ॥२१॥ तयोरन्येचुरुत्पन्नः, सुतः सर्वसुखावहः । यस्य प्रभावतो वृष्टो, मेघो युष्मादृशां मुदे ।। २२ ॥ अयं हि प्राग्भवे रङ्को, भिक्षावृत्तिरभूत् कचित् । दृष्ट्वाऽन्यदा मुनि कश्चि-द्ववन्दे हर्षपूरितः ॥२३॥ गृहाण नियमान्कांश्चि-दिति तं संयतो जगो । अन्यथाऽपि तवेदानी, सम्पत्तिर्नास्ति तादृशी ॥ २४ ॥ ततस्तदन्तिके देवनत्यादीनियमानसौ । प्रतिपेदे क्रमाद्भाग्यैः, सोऽपि जातो महर्द्धिकः ॥ २५ ॥ प्राच्यावस्थां निजां तेन, स्मरता हृदि मण्डिताः । सजीकृतानपानाद्याः, सत्रगेहाः पदे पदे ॥ २६ ॥ रङ्कादारभ्य भूपान्त, मनुष्यान् लक्षसम्मितान् । तदा सन्तोषयामास, साधूंश्चापि सहस्रशः ॥ २७ ॥ दानपुण्यमखण्डं त-जीवितावधि स व्यधात् । भवेत्र तदसौ जातः, आधारः सर्वभूस्पृशाम् ॥ २८ ॥ दुर्भिक्षमभविष्यच्चे-जातो नाऽभृदयं शिशुः । यदेषमोऽन्यदेशेषु, स्तोका एवाभवन् घनाः ॥२९॥ अतो नैमित्तिकः सत्य-स्त्वमेतं माऽवहीलय । श्रुत्वेति विस्मितो राजा, सूरीनत्वा गतो गृहम् ॥३०॥ आनाय्य बालकं चक्रे, तमेव नृपति नृपः । औचित्याऽऽचरणे सन्तः, किं मुह्यन्ति कदाचन ? ॥३१॥ यस्याऽधारे प्रवर्त्तन्ते, प्रजाः सौख्यसमृद्धिभिः। स एव कीर्त्यते राजा, इति स्मृतिवचो यतः ॥ ३२ ॥ धर्मराज इति प्रत्त-नामा भूपमुखर्जनैः । स बालोऽप्यभवद्राजा, वालार्क इव तेजसा ॥ ३३॥ तदाज्ञा यत्र देशेऽभूत् , दुर्भिक्षं तत्र नाऽभवत् । विक्रीयाऽन्येषु, देशे धान्यानि घुम्नमर्जितम् ॥ ३४ ॥ एवं स धर्मप्रवणः प्रभावनां, चक्रे चिरं श्रीजिनराजशासने ।
॥४०॥
For Private and Personal Use Only