________________
२४
सप्तमाङ्गस्य विवरणे
विभूतिवर्तते” इति ॥३॥ मरणशंसाप्रयोग उकखरूपपूजाद्यभावे भावयत्यसौ “यदि शीघ्र म्रियेऽहम्” इति स्वरूप इति ॥ ४ ॥ कामभोगामाप्रयोगो, “यदि मे मानथ्यकामभोगादिव्यापाराः सम्पद्यन्ते तदा माधु" इति विकल्परूपः ॥ ५ ॥
॥५८॥नो खलु इत्यादि नो खलु मम भदन्त भगवन्कल्पते युज्यते। अद्यप्रति इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारमन्यतपरिपालनार्थं तद्यतनामाश्रित्य । अन्नउथिए व ति जैनथूयाद्यदन्यायं सङ्घान्तरं तीर्थान्तरमित्यर्थः, तदस्ति येषां ते ऽन्ययथिकाश्चरका दिकुतौर्थिकाः, तान्। अन्ययूथिकदैवतानि वा हरिहरादीनि । अन्ययूथिकपरिग्टहीतानि वा चैत्यानि अत्प्रतिमालक्षणानि, यथा भौतपरिग्टहीतानि वीरभद्रमहाकालादीनि । वन्दितुं वा अभिवादन कर्तुम् । नमस्यितुं वा प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुम् । तद्भकानां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः॥ तथा पूर्व प्रथममनालप्तेन सता अन्यतौर्थिकैः, तानेव। बालपितुं वा सकृत्सम्भाषितुम् । मलपितुं वा पुनःपुनः मलापं कर्तुम् । यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुका भवन्ति, तत्प्रत्ययश्च कर्मबन्धः स्यात् । तथालापादेः सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति। प्रथमालप्तेन त्वमम्ममं लोकापवादभयात् “कीदृशस्त्वम्" इत्यादि वाच्यमिति ॥ तथा तेभ्योऽन्ययूथिकेभ्यो ऽशनादि दातुं वा सकृत्, अनुप्रदातुं वा पुनःपुनरित्यर्थः ।।
११ मानष्यकाः कामभोगादिव्यावा सम्पद्यत्ते। १ विकल्परूप, ce विकल्परूपा। ३० e यहच्चत्यानि। ४ ३ नमःस्यतुं, नमयितुं, नमस्यतुं । ५.ce योगोलककल्पाः। ।