________________
सप्तमाङ्गस्य विवरणे
दिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतमापेक्षतया व्रतविषयं परिहरत:१ प्रवृत्तिः सेो ऽतिचारो, विपरीततायां तु भङ्ग इत्येवं सङ्कीर्णा तिचारपदगमनिका कार्या। अथ सर्वविरतावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव । यदाह ।
मब्वे वि य अदयारा मञलणाणं तु उदयो हन्ति ।
मलच्छेज्ज पुण होद बारसण्हं कसायाणं ॥ अत्रोच्यते इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्थार, न देशविरत्यादिभङ्गदर्शनार्था । तथैव वृत्ती व्याख्यातत्वात् । तथा सज्वलनादयविशेषे सर्वविरतिविशेषस्यातिचारा एव भवन्ति, न मूलच्छेद्यम् । प्रत्याख्यानावरणादौनां तदये पश्चानुपर्ध्या सर्वविरत्यादौनां मूलतः छेदो भवतीत्येवंभूतकाख्यानान्तरे ऽपि न देशविरत्यादावतिचाराभावः सिध्यति । यतो यथासं यतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति, इतरचारित्र२ सम्यत्वं च सातिचारमुदयविशेषानिरतिचारं च भवतीति । एवं बतौयोदये सरागचरणं नश्यति, देशविरतिमम्यक् मातिचारे निरतिचारे च प्रत्येक तथैव स्याताम् । दितीयोदये देशविरतिभ्रंश्यति, सम्यत्वं तु तथैव विधा स्यात् । प्रथमोदये तु सम्यक्त्वं भ्रश्यतीति । एवं चैतत्, कथमन्यथा सम्यकातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, साविकेषु तु मूलमिति । अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः, सज्वलनास्तु देशघातिन इति । ततश्च सर्वघातिना
१० परिहारः। २ e दर्शनार्थ । ३ दूरतच्चारित्रं । ४ e om. च । ५ सरागावरणं प्रणश्यति । ६ निरतिचारेषु om. च । ७ c om. तु ।