________________
देशीनाममाला णौससदेसिपरिमलपल्लवियकुऊहलाउलत्तेण । विरज्जडू देसीसहसंगहो वमकमसुहओ ॥२॥ देशीशब्देन देशीशास्त्राण्युच्यन्ते। निःशेषदेशीशास्त्राणां परिमलनेन परिशोलनेन पल्लवितं प्रादुर्भूतं क्वचिदर्थासमर्पकत्वेन क्वचिदनुपूर्वीनिश्चया भावेन क्वचित्यूर्वदेशीविसंवादेन क्वचिह्नतानुगति कतानिबद्धशब्दार्थतया यत् कुतूहलं तेन यदाकुलत्वमाः कथमयमपभ्रष्टशब्दपशमग्नो जन: समुदरणीय इति परोपचिकीर्षारंभसस्तेन हेतुना देशीरूपाणां शब्दानां संग्रहो विरच्यते। अस्माभिरिति शेषः । पादलिप्ताचार्यादिविरचितदेशीशास्त्रेषु सत्स्वप्यस्यारम्भे प्रयोजनं विशेषणबारेणाह वसति। वर्मा अकारादयो हकारावसानाः प्राकृतप्रयोगयोग्यास्तेषां पदादिभूतानां मुखग्रहणधारणनिमित्तं क्रमः परिपाटिः। तेन वर्णक्रमेण यक्षरताक्षरचतुरक्षरादिपदक्रमेण च सुखदः सुभगो वा। वर्णक्रमेण हि निर्दिष्टाः शब्दा अर्थविशेषसंशये सति मुखेनैव स्मर्यन्तेऽवधार्यन्ते च । वर्णक्रमातिक्रमेण च निर्दिश्यमाना न मुखेनावधारयितुं शक्यन्त इत्यर्थवान् वर्णक्रमनिर्देशः ॥ (२) पुनरितरदेशीभ्यो वैलक्षण्यमाह।
जे लक्खणे ण सिद्धा ण पसिद्धा सक्कयाहिहाणेसु। __ण य गउणलक्खणासत्तिसंभवा ते दूह णिबड्वा ॥३॥ · लक्षण शब्दशास्त्रे सिद्धहेमचन्द्रनानि ये न सिहाः प्रकृतिप्रत्ययादिविभाग न न निष्पवास्तेऽत्र निबद्धाः। ये तु वन्नर-पज्जर-'उप्फाल-पिसुण-संघ-वोल्ल-चवजंप-सीस-साहादयः कण्यादीनामादेशत्वेन साधिताः ( सिचमचन्द्रम्-८,४,२) तेऽन्यैर्देशीषु परिग्रहीता अप्यस्माभिर्न निबद्धाः। ये च सत्यामपि प्रकृतिप्रत्ययादिविभागेन सिद्धौ संस्कृताभिधानकोशेषु न प्रसिद्धास्तेऽप्यत्र निबताः। यथा। अमृतनिर्गम-छिद्रोद्भवा-महानदादयश्चन्द्र-दूर्वा-हरादिष्वर्थेषु। ये च संस्कृताभिधानकोशेष्वप्रसिद्धा अपि गौण्या लक्षणया वाऽलंकारचूड़ामणिप्रतिपादितया
1B भावेन क्वचिद्गता. 2 AB कतया नि. 3 B भस्तेन. 4B नेय ग. 53 °न नि. 60 बज. 7B उप्पाल'. 80 °बोल्ल. 9 B ° अप्रसिद्धा अपि गौण्या.