________________
'अथ देशोनाममाला प्रारभ्यते ।
देशी दुःसंदर्भा प्रायः संदर्भितापि दुब्बोंधा । आचार्यहेमचन्द्रस्तत्तां संदृभति विभजति च ॥
समग्रशब्दानामनुशासने चिकीर्षिते संस्कृतादिभाषाणां षमां शब्दानुशासने सिहेमचन्द्रनाम्नि सिद्धिरुपनिबद्धा । इदानी लोपागमवर्णविकारादिना क्रमेण पूर्वैरसाधितपूर्व्वा देश्याः शब्दा अवशिष्यन्ते । तत्संग्रहार्थमयमारम्भः । तत्रादौ शिष्टसमय इत्यधिकृतदेवता नमस्क्रियते ।
गमणयपमाणगहिरा सहिययहिययहिययंगमरहस्सा । जयइ जिणिंदाण असेसभासपरिणामिणो वाणी ॥१॥
गमास्तात्पर्य भेदिनः सदृशपाठाः । नया वस्त्वेकदेशग्राहिणः स्याद्वादाविरोधिनोऽभिप्रायविशेषा नेगमसंग्रह व्यवहारसूत्र शब्दसमभिरुदेवंभूताभिधानाः सप्त । प्रमाणानि स्याद्दादगोचराणि प्रत्यक्षादीनि । तैर्गभीरा मन्दबुद्धीनामस्ताघाः । अथ च सहृदयं सचेतनं हृदयं येषां तेषां हृदयंगमरहस्या । अत एव जयति निःशेषतोर्थिकभाषोत्कर्षेण वर्त्तते । जयत्यर्थेन च नमस्कार आक्षिप्यते । श्रयमपर उत्कर्षो यदशेषभाषारूपत्वेन परिणमते । यदाह ।
देवा देवीं नरा नारों शबराश्चापि शाबरोम् । तिर्यञ्चोऽपि हि तैरवीं मेनिरे भगवद्गिरम् ॥
सैवंभूता जिनेन्द्राणामर्हतां वाणी जयतीति संबन्ध: ॥ (१) व्युत्पित्सु प्रष्टत्तयेऽभिधेयप्रयोजने आह ।
1 A opens with ए १०॥ ओं नमः सर्व्वज्ञाय B with ५० ॥ श्रीगुरुभ्यो नमः सर्व्वज्ञा ।