________________
स्तुतिकल्पलता
॥ १९. श्रीविजयनेमिसूरिशतकम् ॥
विपुलकीर्तिभरेण हिमत्विषो, विजयिनाऽमृतगर्वमुचा गिरा । कृतपदं सकलागमपारगं, विजयनेमिगुरुं महितं नुमः ॥१॥ स्तुवन्नहं त्वां बुधहास्यधाम, तथापि भक्त्या प्रलपामि नाथ ! । यथेष्टमालप्य शिशुर्वचांसि, न कि प्रमोदं प्रतनोति पित्रोः ॥२।। स्पृष्टो नमस्कारपथं प्रयातो, ध्यातो नुतः पूजितुमीहितो वा । त्वं सर्वलोकोपकृतेविधाता, पूज्योऽसि केषां न जगत्त्रयेऽस्मिन् ॥३॥ त्वदर्शनान्नाथ! शरीरिणां सदा, नश्यन्ति पाशा दृढकर्मणामपि । नद्धा न कि तायविलोकनादहे:, पाशा विनाशं सहसा व्रजन्ति हि ॥४॥ अचिन्त्यसौख्याप्तिफलाफलच, यैर्यैस्तु दृष्टोऽसि जगद्गुरुस्त्वम् । पुण्यानुबन्धीनि कृतानि तैस्तै-महान्ति पुण्यानि महाफलानि ।।५।। ते नामिनः शुद्धगुणा भवन्ति, निर्दोषसारा प्रकृतेहिताधाः । तस्माद् वयं नाथ! सदा नमाम, आप्तं भवन्तं जगतीहितं च ॥६॥ आसादिताशेषसुखं सुखीनं, पापप्रमुक्तं मुनिपुङ्गवं च । श्रीसाधुमत्त्यैरभिवन्दितं तं, श्रीनेमिसूरं प्रणमामि भक्त्या ॥७॥ येनोदधारि किल सूरिपदं सुयोगै-र्लोकोपकारकुशलं गुणगुम्फितेन । श्रीवीरशासनशुभोन्नतिकारकस्तु, सूरिर्जयत्यखिलशास्त्रविचक्षणोऽयम् ॥८॥ रत्नत्रयोद्योतितदिग्विभागकः, समस्तसवस्य च भद्रकारकः । परोपकाराय वपुर्धरन्नयं, चिराय भूयाद् भवभेदको नृणाम् ॥९॥ प्रसन्नकीर्ते ! जय नाथ ! सम्प्रति, दुरासदं ते शरणं क्षितौ नृणाम् । समस्तलोकाखिलसौख्यदायकं, चिन्तामणेरप्यतिशायि भूतले ॥१०॥ वाताभ्रविभ्रमसमक्षयसौख्यरक्ते, दुःखानलप्रकलितान्तरवृत्तिलोके । कालायिते कलियुगेऽथ तव प्रशस्यं, केषां न पादयुगलं वरसौख्यहेतुः ॥११।। श्रीनेमिनाथपदपङ्कजवासिनो नो, स्कन्दन्ति दुःखलवमप्यथ मानवास्तम् । पापापहारकरणं चरणं नराणां, यस्य श्रयामि शरणं प्रभुनेमिसूरिम् ॥१२।।