________________
३८
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
अथाऽष्टाक्षरपादमनुष्टुभ चित्रपदावृत्तम्
चित्रपदा तव वाणी, शान्तिसुखाय ममाऽस्तु । आप्तजनाः कविलोका, यामनिशं तु नुवन्ति ॥८॥
अथ नवाक्षरपादं बृहत्यां भुजगशिशुभृतावृत्तम् तव जिनवर ! भक्ता ये न भवति किल तेषां तु । शमसुखदद! भीत्यै सा, भुजंगशिशुभृता भूमिः ॥९॥
अथ दशाक्षरपादं पङ्क्त्यां मत्तावृत्तम् मत्ता लोका तव न भजन्ति, पादाम्भोजं विषयमसारम् । मन्वाना ये शुभफलहेतु ते यान्तीशाऽसुखमिह भूयः ॥ १०॥
अथैकादशाक्षरपादं त्रिष्टुभि स्वागतावृत्तम्
नाथ! ते पदसरोजमिलिन्दा, ये जना भुवि वरा विभवास्ते । लब्धपुण्यभरदेव! सुरेभ्यः, स्वागतानि सुरपूज्य ! लभन्ते ||११|| अथैकादशाक्षरपादं त्रिशुभि इन्द्रवज्राच्छन्दः
स्तीतीश्वरं वीरविभुं जनोऽथ, देवेन्द्रपूज्यक्रमपद्मरागम् ।
यो मानवस्तस्य तु पुण्यभाजो नो इन्द्रवज्रादपि भीतिरस्ति ॥ १२॥ अथ द्वादशाक्षरपादं जगत्यां वंशस्थवृत्तम्
सदा सुवंशस्थ भवैर्जनोत्तमैः प्रपूज्यपादाब्जयुगं मुनीश्वरम् । सदा महावीरजिनं जिनेश्वरं स्तवीमि भक्तिप्रसरद्वचोभरैः ||१३||
६. या भगणेन पिनद्धा, भेन पुनः प्रविबद्धा गद्वयतो रमणीया चित्रपदा कथिता सा ॥
1
कथा SII SIIS S
७. नगणयुगलसन्नद्धा, मगणविततसौन्दर्या कविकुलकचिता त्वेषा, भुजगशिशुभृता ज्ञेया ॥ उणिका था ।।। ।।। ऽऽऽ
८. यस्यां पूर्वं मगणविलासः, पश्चात्तस्माद् भगणनिबन्धः । मध्ये सेन प्रविगदिता सा, विज्ञैर्मत्ता गुरुरचितान्त्या ॥
SSS SII IIS S
९. कीर्त्तितेह विबुधै रमणीया, स्वागतेति मधुराक्षरबद्धा । रेण नेन सुभगा भगणेन, सा गुरुद्वयमनोहरबन्धा ||
SIS III SII SS
SSI SSI ISIS
१०. आदी तयुग्मेन विराजमाना मध्ये जकारण विभूषिता या । अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवजा विबुधप्रसिद्धा । उवणिका यथा 551 55 1 151 5 5 ११. गणो जसंज्ञः प्रविभासते पुर-स्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते, प्रतीहि वंशस्थमिदं महामते ! ॥ उट्टवणिका यथा ISI SSI ISI SIS