________________
स्तुतिकल्पलता
॥। १२. महावीरस्वामिषट्त्रिंशिका ॥
अथ स्तोष्ये वीरनाथं, वावन्दितगुरुक्रमः । छन्दोभिर्विविधैः कैचिन्मुग्धलोकप्रबोधकैः ॥१॥ गुणानसंख्यास्तव वक्तुमीशो, मुखैः सहस्रैरपि नोरगेश: । किमल्पबुद्धिर्मनुजो ब्रवीतु तथाऽपि भक्त्या मुखरीकृतोऽहम् ॥२॥ अथैकाक्षरपादमुक्तायां श्रीवृत्तम्
श्रीश स्याऽघम् ॥३॥
अथ त्र्यक्षरपादं मध्यायां मृगीवृत्तम्
नो जनालीभृंगी । त्वां विना याति शम् ||४|| अथ त्र्यक्षरपादं मध्यायां नारीवृत्तम् लोकास्ते यान्तीश ध्यातारो मानोरीम् ॥५॥ अथाऽष्टाक्षरपादमनुष्टुभि समानिकावृत्तम्
वीर ते समानिका च लोष्टकाञ्चनादिकेषु ।
दृष्टिरास ! दुःखहार ! शान्तये ममाऽस्तु साऽथ ||६||
अथाऽष्टाक्षरपादमनुष्टुभि विद्युन्मालावृत्तम्
विद्युन्मालानाशां लक्ष्मीं देवेच्छन्ति त्वद्धयाशून्या । नो ते मत्यां मोक्षं वीर मायामोहे सक्ता यान्ति ॥७॥
३७
१. श्रीः स्यात् । गुश्चेत् ॥ उट्टवणिका यथा
S
२. यत्र र: एव चेत् । सा मता ज्ञैर्मृगी ॥ उट्टवणिका यथा SIS
३. एको मश्चेन्नारी । छन्दोज्ञैः सा ख्याता ॥ उट्टणिका था 555
४. पूर्वमेव रो विभाति, जस्ततो गुरुर्भवेच्च । लान्तिका समानिकेह, कीर्त्तिता बुधाग्रगण्य ! ॥ उट्टवणिका यथा
SIS ISIS I
५. विश्रामः स्यात्पारावारैः सर्वे यत्र ख्याता दीर्घाः । अष्टौ वर्णाः सा शोभाढ्या, विज्ञैर्ज्ञेया विद्युन्माला ॥
5 5 5 5 5 5 5 S
1
-