________________
स्तुतिकल्पलता
॥ ११. स्तुतिफलप्रशंसाख्यं श्रीपार्श्वनाथस्तोत्रम् ॥
ते सर्वदैव भुवने न च शोचयन्ति, क्लेशापदं सपदि ते प्रविमोचयन्ति । तान् वैरिणोऽपि वचनैर्न च वञ्चयन्ति, ये त्वां सुपुष्परचनैररमर्चयन्ति ॥१॥ ते कर्मरज्जुनिगडं त्वतिखण्डयन्ति, सूक्तैर्विदग्धसमिति सुविमण्डयन्ति । ते वैरिचक्रमपि चाऽत्र न चण्डयन्ति, ये त्वत्स्तवेन दुरितं त्वतितुण्डयन्ति ॥२॥ विघ्नव्रजं सततमेव निवारयन्ति, बुद्ध्या त एव सदसच्च विचारयन्ति । आपत्ततिं जिनवर ! प्रविदारयन्ति, त्वद्भक्तिमेव हृदि ये प्रविधारयन्ति ।।३।। ते सिद्धिसौधगमने परितूरयन्ति, संसारघोरविपिनं परिचूरयन्ति । ते लोभमित्रनिवहं परिशूरयन्ति, ये त्वन्नवस्तवभरं परिपूरयन्ति ॥४॥ पापप्रवाहमिह ते परिपीलयन्ति, पुण्यव्र प्रतिदिनं परिकीलयन्ति । कामाममार्गमनिशं परिमीलयन्ति, ये त्वन्नवस्तवभरैः परिशीलयन्ति ।।५।। श्रोतृन् सुधर्मवचनैर्भुवि पावयन्ति, मायालतां च विकटां परिलावयन्ति । तेऽल्पं जनानपि कदापि न दावयन्ति, ये त्वां सुधारसमयं हृदि भावयन्ति ॥६।। ते तोषपोषवचनैः परितूषयन्ति, ध्यानामृतं धृतिगताः परिचूषयन्ति । सज्ज्ञानदानमनिशं परिपूषयन्ति, ये स्वं मनस्तव नवैः परिभूषयन्ति ॥७॥ ते पापपङ्कमनिशं परिशोषयन्ति, क्रूरान् विरोधविततानपि तोषयन्ति । चारित्रकन्दमतुलं परिपोषयन्ति, त्वां पार्श्व! पार्श्व इति ये परिघोषयन्ति ।।८।। ते ज्ञानदानमनिशं प्रविदासयन्ति, शान्ति त एव हृदये त्वधिवासयन्ति । दुष्कर्मकर्दममलं प्रविहासयन्ति, ये भक्तितस्तव मनः प्रविकासयन्ति ।।९।। ते दुःखाग्नि शमदमजलैर्देव ! निर्वापयन्ति, स्वीयानेहः क्षणमपि वृथा नैव ते यापयन्ति ! संत्रस्तानामभयमनिशं सर्वतो दापयन्ति, ये त्वद्भक्तिप्रवणहृदयं सद्गणे ख्यापयन्ति ॥१०॥ ते भव्यानां भववनमहोदन्वतस्तारयन्ति, स्वं शान्ताद्यैः सकलसुरसैर्भाषितं धारयन्ति । विद्राव्यान्तर्भवकुविषयान् सर्वदोत्सारयन्ति, ये त्वत्स्तुत्या स्वहृदमनिशं भक्तितः पारयन्ति ॥११॥