________________
स्तुतिकल्पलता
विजैर्वन्दितपूज्यपादकमल: पार्श्वः सतां वल्लभो, जन्तुक्षेमकरो वरस्सकनकाभासः श्रिये स्तान्मम ॥९॥ सर्वेऽखर्वकुगर्वपर्वरहिताः प्राज्ञाः प्रियं प्राणिनां, सर्पदर्पहरं वरं शिवकरं सारं सदा सादरम् । श्रीपार्श्वस्य नवं नवं नवनरा भक्त्या भवच्छेदनं, कण्ठाग्रे कलयन्तु कौतुककरं कौटिल्यकुण्ठा इदम् ॥१०॥ पादिप्रबन्धकलिता वचनावलीयं, पार्श्वस्य पादकमले भ्रमरावलीव । भूयात् सदा सुखमधुक्षरणा निविष्टा, स्वाराधनैकनिपणस्य बधस्य चित्ते ॥११।।
॥ इति श्रीविततपाण्डित्यताण्डवताण्डवितकीर्त्तिकौमोदीकश्रीमद्विजयनेमिसूरीश्वरपादपद्मनिर्यन्मकरन्दबिन्दुतुन्दिलचित्तभ्रमरयशोविजयविरचितं
पादिपदकदम्बमयं पार्थाष्टकं स्तोत्रं समाप्तम् ।।