________________ 368 प्रकीर्णरचनासन्दोहः सत्पात्रेभ्यो ददानानां, दानं सद्ब्रह्मचारिणाम् / तपस्यासाम्ययोगानां, तेषां मृत्योर्भयं कथम् // 30 // उद्दिश्याऽऽत्मानमाचार-साधनाऽध्यात्ममीरितम् / तत्र निश्चलचित्तानां, तेषां मृत्योर्भयं कथम् // 31 / / धर्मकर्ता गुरुर्वैद्यो, धर्मज्ञो धर्मदेशकः / सदौषधं मोक्षमार्ग-साधना ज्ञानपूर्विका // 32 // पथ्यं सद्भावनायोगात्, त्रयाणां च प्रणश्यति / भावामयो मिलन्तु मे, त्रये एते भवे भवे // 33 / / (युग्मम्) श्रुताभ्यासो नतिर्देवे, सत्कथाचार्यसङ्गतिः / दोषप्रकाशने मौनं, प्रिया वागात्मभावना // 34|| [करुणा] गुणदृष्टिश्च, विंशतिस्थानसेवना / अन्तरालभवेष्वेते, संपद्यन्तां भवे भवे // 35 / / आत्मवादादिभिस्तत्त्वै-र्जयति जिनशासनम् / उत्कृष्टं सर्वधर्मेषु, साधकाः सन्तु निर्मलाः // 36 / / निर्लेपाः पद्मवज्जाता, अनन्ता अधुनाऽङ्गिनः / भवन्ति च भविष्यन्ति, जैनधर्मस्य साधनात् // 37 / / जैनधर्मो रत्नतुल्यो, धर्माश्चाऽऽन्ये न तादृशाः / यथार्थकरणं जैने, धर्मेऽन्यत्रैव भाषणम् // 38 / / जैनधर्मरताः सर्वे, भवन्तु सुखिनः सदा / मैत्रीप्रमोदकारुण्य-सन्माध्यस्थ्यान्वितास्तथा // 39 // मङ्गलं तीर्थराजो मे, मारुदेवप्रभुस्तथा / शान्तिनेमिपार्श्ववीरा, देवाः कुर्वन्तु मङ्गलम् // 40 // वर्षेऽत्र वैक्रमे श्रेष्ठे, निधिनन्दनवेन्दुगे(१९९९) / फाल्गुने सितपञ्चम्यां, ग्रामे बोटादनामनि // 41 / / नेमिसूरीशशिष्येण कृतेयं पद्मसूरिणा / लक्ष्मीप्रभस्य विज्ञप्त्या, श्रीतत्त्वामृतभावना // 42 // (युग्मम्) (जैन-सत्यप्रकाश: - वर्ष-११, अङ्क-६)