________________
३४६
प्रकीर्णरचनासन्दोहः
एकादशाङ्गविज्ञत्वं, द्वादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना ॥३०॥ पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः ॥३१॥ द्वादशभावनोद्युक्तः, संक्लेशदशकोज्झितः । अकल्प्यषट्कनिर्मुक्तो, रतः संवेगसागरे ॥३२॥ [स] बाह्याभ्यन्तरग्रन्थ-त्यागी निर्ग्रन्थपुङ्गवः । प्रभावकश्च निस्तन्द्रः, षट्सु कायेषु यत्नवान् ॥३३।। प्रज्ञप्त्यादिमहायोगो-द्वहनं प्रविधाय वै । समाराध्य महामन्त्रं, सूरिमन्त्रमनुत्तरम् ॥३४॥ सुधर्मस्वामिनः पट्ट-पारम्पर्यसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सार्वसङ्गशिरोमणिः ॥३५।। तथाऽभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निर्ग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥३६।। न्यायशास्त्रेषु सम्पूर्णाः, केचित् सिद्धान्तसागराः । केचिद् व्याकरणाभिज्ञाः, केचित् शास्त्रार्थकोविदाः ॥३७॥ केचिद् ग्लानादिसाधूनां, वैयावृत्त्यादितत्पराः । सद्योगोद्वाहिनः शुद्धा-चारशीलसमन्विताः ॥३८|| जिनाज्ञां पालयन्तश्च, त्वदाज्ञानिरताः खलु । तवैवं शिष्यसङ्घाताः, प्रसिद्धा एव भूतले ॥३९॥ भगवन् ! करुणासिन्धो !, शुभलेश्य ! सुयोगभृत् ! । विगतस्पृह ! ते नाथ !, कथं पुण्यं प्रवर्णये ॥४०॥ दुर्भिक्षसमये नाथ !, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमतां त्याजनेन वै ॥४१।। पशूनां मनुजानां च, बहूनामभयार्पणम् । कारयामासिषे यत् त्वं, तज्ज्ञातं कस्य नो भवेत् ॥४२॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्यधापयः । धर्मक्रियापराणां च, श्रावकाणां कृते पुनः ॥४३।। उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसङ्केभ्यो, नाथ! त्वं निरमीमपः ॥४४॥ शत्रुञ्जयमहातीर्थ-संरक्षणैकतत्परः । चैत्योद्धाराण्यनेकानि, चारूणि त्वं व्यधापयः ॥४५।। मरुदेशे च ग्रामे तु, कर्पटहेटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शनाद्धर्षकारिणि ॥४६।।