________________
प्रकीर्णरचनासन्दोहः
३४५
दृष्टमात्रैश्च त्वत्पादै-जन्मान्तरकृतान्यपि । म्लायन्त्येनांसि पद्मानि, तरसेन्दुकरैरिव ॥१३।। ज्ञानध्यानतपोदग्धां-हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि ॥१४॥ हीनसत्त्वसमाक्रान्ताः, पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः ॥१५।। गाम्भीर्येण महाम्भोधिं, सहस्रांशुं च तेजसा । धैर्येण मन्दरशृङ्ग, त्वं जयस्यतिविक्रमः ॥१६।। ये सर्वेऽपि तपोब्रह्म-सत्यसत्त्वादयो गुणाः । त्वय्येव ते वसन्त्युच्चै-विमुच्य विष्टपत्रयम् ॥१७।। इदं च नाऽद्भुतं नाथ!, विश्वकल्याणकारक! । समुद्रमेव गच्छन्ति, मणयः सरितो न हि ॥१८॥ महाघोरभवाटव्या-मटतां भव्यदेहिनाम् । त्वमेवाऽतिप्रयत्नेन, शुद्धमार्गोपदेशकः ॥१९॥ त्वं चाऽविरतिजम्बाल-जालसंक्षालनक्षमः । बहूनां भव्यसत्त्वानां, संसारोद्वेगशालिनाम् ॥२०॥ पापपुञ्जोत्पादितश्च, तावत् तापोऽत्र देहिनाम् । यावत् तेषां न नाथ ! त्वं, सदानन्दो हृदि स्थितः ॥२१॥ प्रहताशेषसंसार-विस्तारो मुनिशेखर ! । घोरसंसारकान्तार-सार्थवाहस्त्वमेव च ।।२२।। नाथ ! त्वां चोररीकृत्य, शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः ॥२३॥ त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो, जातो धन्यावतंसकः ॥२४।। सर्वशास्त्रेषु नैपुण्य-मादधत् त्वं महोदयः । गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः ॥२५।। त्वमेव चाऽधुना नाथ !, संसारे सुखकामिभिः ।
आदेयोऽसि प्रयत्नेना-ऽशेषसम्पद्विधायकः ॥२६।। निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन, त्वया नाथ ! समुद्धृताः ॥२७॥ मैत्र्यादिभिश्चतुर्भेद, यच्चाऽऽज्ञादिचतुर्विधम् । ध्यानं तत् सर्वदा नाथा-ऽवस्थितं चेतसि तव ॥२८।। अष्टाङ्गयोगकौशल्य-मष्टसिद्धिप्रवीणता । अष्टाङ्गयोगदृष्टेश्च, नैपुण्यं ते महाद्भुतम् ॥२९॥