________________
१२२
श्रीविजयनन्दनसूरिविरचितः
॥ २. श्रीचतुर्विंशतिजिनचैत्यवन्दनानि ॥
॥ श्रीआदिनाथ-चैत्यवन्दनम् ॥ यद्ध्यानेन नरा निरन्तरसुखं मोक्षं लभन्तेऽचिरं, यन्नामस्मरणेन सर्वदुरितं याति प्रदूरं द्रुतम् । यन्मूर्तेरभिदर्शनेन नयने शान्ताऽमृतं प्राप्नुतो, भव्यानामभयाय सोऽस्तु सततं नाभेय आदीश्वरः ।१।।
(शार्दूलविक्रीडितम्) कृत्वा योऽखिलकर्मगाढजलदं दूरं तपोवायुना, प्राप्य ज्ञानरविं ददर्श सकलं लोकस्वरूपं भृशम् । गत्वाऽष्टापदमाप्तबन्धुरपदो नष्टाखिलापत्तिक, ऐक्ष्वाको वृषलक्षणो विजयतामादिप्रभुस्सर्वदा ॥२॥ प्रापुः पारमपारजन्मजलधेर्यद्धर्मसन्नौकया, प्राप्स्यन्ति प्रमुदाऽऽप्नुवन्ति भविनोऽनेके विशुद्धं वरम् । विश्वेशानमहं जिनेन्दुमनिशं शान्त्यालयं सुन्दरं, दिव्यानन्दनदीपति यतिपतिं तं मारुदेवं स्तुवे ॥३॥
॥ श्रीअजितनाथ-चैत्यवन्दनम् ॥ जगतीभविनामघपद्महिमं, दृढमोहमहागजकेसरिणम् । अजितं सततं जिनचन्द्रमहं, प्रणमामि विभुं नृसुरप्रणतम् ॥१॥ (तोटकम्) भवकर्मखलानभिजित्य बला-दसमाचलमाप पदं रुचिरम् । स विभुः प्रवरोऽभयरोपकरो, मतिदो वरदोऽस्तु सदोदयदः ॥२॥ जगतां प्रभुतां भवितारकतां, भविता लविता भववल्लिवनम् । सुतपश्चरिता शिवमातनुतां, जितशत्रुसुनन्दन आप्तवरः ॥३।।
॥ श्रीसम्भवनाथ-चैत्यवन्दनम् ॥ प्रगाढपारमानेता, दुस्तरस्य भवोदधेः । कामितानि प्रदत्ते य-द्धर्मः कल्पतरूपमः ॥१॥ (अनुष्टप्) चारुपोतं भवाम्भोधौ, विश्वनाथं तमीश्वरम् । यस्य वागमृतं पीत्वा-ऽक्षयं यान्ति पदं जनाः ॥२॥