________________
११८
पं. श्रीप्रतापविजयविरचितः
॥ १७. प्रशस्तिः
॥
यस्य प्रौढतरप्रतापतरणिर्मोहान्धकारापहा, सङ्क्रान्तो भुवनत्रयेऽघरहितो नित्योदयो राजते । दूरं याति कुतीर्थिकौशिकगणो यस्योद्गमे सर्वदा, जीयात् सोऽन्तिमतीर्थकृत् त्रिभुवनालङ्कारचूडामणिः ॥१॥ श्रियैधमानमर्हन्तं, पञ्चेषुक्षतिशङ्करम् । सिद्धं परिष्टुतं देवै-वन्देऽपश्चिमदैवतम् ॥२।। क्षीरान्नेनैकपात्रान्निजसदतिशयात् तापसान् भोजयित्वा, येन स्वष्टापदाद्रावनघमभिददे केवलं दक्षिणायाम् । लब्ध्वा सारं त्रिपद्याश्चरमजिनपतेादशाङ्गी प्रचक्रे, कल्याणानां निवासो भवतु भवतुदे सेन्द्रभूतिर्मुनीन्द्रः ॥३॥ यत्तेजसा महामोह-ध्वान्तस्तोमो विलीयते । तस्मै चिदेकरूपाय, गौतमाय नमोनमः ॥४॥ शान्तात्मा भुवनारविन्दसविता जात: सुधर्मा प्रभु-र्हन्ताऽशेषकुवादिमत्तकरिणां श्रीवीरपट्टे शुभे । श्रीजम्बूभगवान् बभूव तदनु स्फारप्रभूतद्युतिः, श्रीजैनेश्वरतीर्थधर्मजलधिप्रोल्लासशीतद्युतिः ॥५॥ लोकानवद्यनिखिलागमतत्त्ववेत्ता-ऽगर्वो गरिष्ठगुणरत्नकबन्धभन् । जैनेन्द्रशासननभस्तलतिग्मभानुः, संवर्द्धमानमहिमाऽवतु नेमिसूरिः ॥६॥ भवदवानलतापपयोधरो, निखिलनास्तिकगर्वविनाशकः । सकलतन्त्रचणो नयभूषितो, विजयतां गुरुनेमिमुनीश्वरः ॥७॥ मनोवचःकायसुयोगधर्ता, जाग्रत्प्रतापो वसुधेशवन्द्यः । वीतस्पृहः सोऽत्र तनोतु शर्म, सूरीशिता श्रीगुरुनेमिनामा ॥८॥ जातं चेन्मतिमान्द्यतः क्वचिदपि श्रीजैनशास्त्रक्रमा-दुत्सूत्रं यदि वा प्रयोगघटनाऽशुद्धा प्रजाता खलु । मिथ्या दुष्कृतमस्तु मे तदखिलं शुद्धाशया भावत-स्तत् सर्वं करुणापराः सहृदयाः संशोधयन्तूचितम् ॥९॥ गच्छतः स्खलनं क्वापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥१०॥ विक्रमार्कनृपस्याऽब्दे, मुनिषण्णवभूमिते (१९६७) । वैशाखस्य सिते पक्षे, पूर्त्तिमाप्नोदियं कृतिः ॥११॥
॥ इति समाप्तोऽयं ग्रन्थः आचार्यवर्यश्रीमद्गुरुविजयनेमिसूरीश्वरप्रसादतः ।।
॥ इति शम् ॥