________________
९८
॥ ७. पञ्चजिनस्तुतयः ॥
पं. श्रीप्रतापविजयविरचितः
( १ )
॥ श्रीऋषभजिनस्तुतिः ॥ सकलनिर्जरमौलिनमस्कृतं, कनककान्तिकलाकमनीयकम् । वृषभलाञ्छनमीहितदायिनं, जिनपतिं प्रथमं प्रणिदध्महे ॥१॥ कलुषकर्द्दमशोषणभास्करा, मदनमत्तकरीन्द्रमृगेश्वराः । जिनवरा जितमोहमहीश्वरा, जनितजन्तुहिता वितरन्तु शम् ॥२॥ हितकरं भविकाम्बुजभास्करं, निखिलनीतिविभूषितमद्भुतम् । कुमतिगर्वविनाशनकौशलं, जिनमतं वितनोतु सुखं सदा ||३|| ललितहंसगते ! कमलस्थिते!, जिनवरांह्रिसुपङ्कजभृङ्गिके ! । परमबोधविधानविशारदे!, वितर देवि! हितं कृतमङ्गले ! ||४||
( २ )
॥ श्रीशान्तिजिनस्तुतिः ॥
अरुणचरणपाता सर्वकल्याणहेतु-स्त्रिदशविहितसेवो विश्वसेनप्रसूतः । दलितसकलदोषो यानपात्रं भवाब्धौ विदितनिखिलतत्त्वः शान्तिनाथोऽस्तु शान्त्यै ॥१॥ शुचितममहिमानो विष्टपैः स्तूयमाना, विगतविषयवाञ्छा मुक्तिरामैकरक्ताः । प्रशमसलिलनाथाः सर्वतीर्थाधिराजा, गतसकलभयास्ते वाञ्छितं मेऽर्पयन्तु ॥२॥ नयगममणिवृन्दोद्भासितं भव्यपूज्यं, शिवपदपथदीपं नित्यशुद्धस्वरूपम् । कृतकुसमयतत्त्वध्वंसनं भूरिशोभं प्रवचनमहमीडे सर्वलोकप्रसिद्धम् ||३|| जिनवरमतसिन्धूल्लासनैकेन्दुकल्पा, शशधरसितवर्णा विघ्नवृन्दापहारा । वरकमलनिषण्णा पुस्तकादिं दधाना - ऽघमपहरतु देवी धार्मिकाणां नराणाम् ॥४॥