________________
पं. श्रीप्रतापविजयविरचितः
॥ ६. चतुर्विंशतिजिनस्तवः - ३ ॥
भक्त्या महेन्द्रार्चितपादपद्मं, देवाधिदेवं करुणावतारम् । निःशेषदोषोज्झितमाप्तमुख्यं, संस्तौमि नित्यं प्रथमं जिनेन्द्रम् ॥१॥ तीर्थाधिराजं त्रिजगत्प्रदीपं, संस्तूयमानं सुरराजवृन्दैः । नागाङ्कसंशोभितपादपद्मं, वन्देऽजितस्वामिनमंशुकान्तिम् ।।२।। भव्याङ्गिनां नेत्रचकोरचन्द्रं, श्रेयोनिवासं महिमानिधानम् । कर्मद्रुमोन्मूलनपुण्डरीकं, श्रीसंभवेशं प्रणमामि भक्त्या ॥३॥ गावो हि वः पान्त्वभिनन्दनस्य, समस्तदेवेन्द्रनरेन्द्रनम्याः । मोहान्धकारापगमांशुहस्ता, विश्वाङ्गिनां संशयनाशदक्षाः ॥४॥ विध्वस्तदोषागमनं शिवाङ्गं, कल्याणकान्ति करुणार्द्रचित्तम् । विश्वाभिवन्द्यं भवतापनीरं, संस्तौमि भक्त्या सुमति जिनेन्द्रम् ॥५॥ कन्दर्पमातङ्गविदारणोरु-कण्ठीरवो दोषविवर्जितात्मा । बालार्ककान्तिः शमवारिनाथः, पद्मप्रभः स्ताद् भवतापशान्त्यै ॥६।। दुर्दान्तकन्दर्पविकारनाशो, देवेन्द्रपूज्यो हतसर्वपापः । वीतस्पृहो वीतसपत्नराशिः, पृथ्वीवपुर्जी जयतात् त्रिलोके ॥७॥ सज्ज्ञानवाधि मृगचिह्नचिह्न, सिद्धं जिनेन्द्रं सुरराजवन्द्यम् । चन्द्रप्रभं ज्ञातसमस्तभावं, संस्तौमि भक्त्या महसेनसूनुम् ॥८॥ पञ्चाक्षजेताऽखिलपापहर्ता, धर्मोपदेष्टा शिवमार्गदाता । दुष्कर्महन्ताऽखिलभूमिभर्ता, भूयाद् विभूत्यै सुविधिजिनेन्द्रः ॥९॥ कल्याणकारी कृतकर्मनाशो, निर्वाणवासो विहितोपकारः । श्रीवत्सलक्ष्मा विगतप्रपञ्चः, श्रीशीतलेशो विदधातु सौख्यम् ॥१०॥ अनङ्गजेतारमनन्तपुण्यं, कारुण्यपाथोधिमनीशमीशम् । संसारसेतुं शिवशर्महेतुं, श्रेयांसनाथं भजत प्रकामम् ॥११॥ विश्वाधिपं निर्जितमोहराजं, भव्याङ्गिचेतोगतसंशयानाम् । दूरे विधानैकपटुं पवित्रं, श्रीवासुपूज्यं प्रणमामि भक्त्या ॥१२॥