________________
षष्ठाध्यायस्य प्रथमः पादः ॥
पुरु-मगध-कलिङ्ग-सूरमस-द्विस्वरादण् ॥ ६।१।११६ ॥ [पुरुमगधकलिङ्गसूरमसद्विस्वरात् ] द्वौ स्वरौ यस्य सः = द्विस्वरः । पुरुश्च मगधश्च कलिङ्गश्च सूरमसश्च द्विस्वरश्च = पुरुमगधकलिङ्गसूरमसद्विस्वरम्, तस्मात् ।
[अण् ] अण् प्रथमा सि । पुरोरन्यत्र अञोऽपवादोऽयमण् सः पुरुशब्दो न राष्ट्रक्षत्रियस्वरूपः किन्तु क्षत्रियवाची ।
[पौरवः, पौरवौ, पुरवः] पुरु । पुरोरपत्यं = पौरवः । पुरोरपत्ये = पौरवौ । पुरोरपत्यानि = पुरवः । अनेन अण्प्र० → अ । वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) सर्वत्र अण्लुप् । सि-औ-जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
गन्धारशब्दोऽपि राष्ट्रक्षत्रियवचनो विद्यते ततः परेणेब् पूर्वेणाञा बाधितत्वात्, अञ् तु गन्धमियत्ति इति व्युत्पत्तिप्रधानादेवापत्येऽञ्, उपचारात् निवासोऽपि गान्धारयः ।
[मागधः, मागधौ, मगधाः] मगधानां राजा, मगधस्यापत्यं वा = मागधः । मगधानां राजानौ, मगधस्यापत्ये वा । मगधानां राजानः, मगधस्यापत्यानि वा । अनेन अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । सि-औ-जस् ।
[कालिङ्गः, कालिङ्गौ, कलिङ्गाः] कलिङ्गानां राष्ट्रस्य राजा, कलिङ्गस्य राज्ञोऽपत्यं वा = कालिङ्गः । कलिङ्गानां राष्ट्रस्य राजानौ, कलिङ्गस्य राज्ञोऽपत्ये वा = कालिङ्गौ । कलिङ्गानां राष्ट्रस्य राजानः, कलिङ्गस्य राज्ञोऽपत्यानि वा = कलिङ्गाः । अनेन अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । सि-औ-जस् ।
[सौरमसः, सौरमसौ, सूरमसाः] सूरमसानां राष्ट्रस्य राजा, सूरमसस्य राज्ञोऽपत्यं वा = सौरमसः । सूरमसानां राष्ट्रस्य राजानौ, सूरमसस्य राज्ञोऽपत्ये वा = सौरमसौ । सूरमसानां राष्ट्रस्य राजानः, सूरमसस्य राज्ञोऽपत्यानि वा । सुरमसाः । अनेन अण्प्र० → अ । वृद्धिः । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् ।
[आङ्गः] अङ्गानां राष्ट्रस्य राजा, अङ्गस्य राज्ञोऽपत्यं वा = आङ्गः । [अङ्गाः] अङ्गानां राष्ट्रस्य राजानः, अङ्गस्य राज्ञोऽपत्यानि वा = अङ्गाः । [वाङ्गः] वङ्गानां राष्ट्रस्य राजा, वङ्गस्य राज्ञोऽपत्यं वा = वाङ्गः । [वडाः] वङ्गानां राष्ट्रस्य राजानः, वङ्गस्य राज्ञोऽपत्यानि वा = वङ्गाः । [सौह्मः] सुझानां राष्ट्रस्य राजा, सुझस्य राज्ञोऽपत्यं वा = सौह्मः । [सुह्माः ] सुझानां राष्ट्रस्य राजानः, सुह्मस्य राज्ञोऽपत्यानि वा = सुराः । [ पौण्ड्रः ] पुण्ड्रानां राष्ट्रस्य राजा, पुण्ड्रस्य राज्ञोऽपत्यं वा = पौण्ड्रः । [पुण्ड्राः] पुण्ड्रानां राष्ट्रस्य राजानः, पुण्ड्रस्य राज्ञोऽपत्यानि वा = पुण्ड्राः । [दारदः] दरदानां राष्ट्रस्य राजा, दरदस्य राज्ञोऽपत्यं वा = दारदः । [ दरदाः ] दरदानां राष्ट्रस्य राजानः, दरदस्य राज्ञोऽपत्यानि वा = दरदाः ।