________________
७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पाञ्चालः, पाञ्चालौ, पञ्चालाः] पञ्चालानां राष्ट्रस्य राजा, पञ्चालस्यापत्यं वा । अनेन अप्र० । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् । अन्यत्र वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-औ-जस् ।
[पाञ्चालः ] पञ्चालस्य ब्राह्मणस्य राजा ।
[सौराष्ट्रकः ] सुराष्ट्राणां राजा = सौराष्ट्रकः । 'राष्ट्रेभ्यः' (६।३।४४) अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आदर्शकः] आदर्शस्य राष्ट्रस्य राजा = आदर्शकः । 'राष्ट्रेभ्यः' (६।३।४४) अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक ।
सुराष्ट्र-आदर्शशब्दौ देश एव वर्तेते ।
[ दाशरथिः] दशरथस्य क्षत्रियस्यापत्यं = दाशरथिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[त्रैपृष्टिः] त्रिपृष्टस्य क्षत्रियस्यापत्यं = त्रैपृष्टिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
नात्र राष्ट्रस्या(स्य)वाचिनौ दशरथ-त्रिपृष्टशब्दौ किन्तु राजन्येव वर्तेते ॥छ।।
गान्धारि-साल्वेयाभ्याम् ॥ ६।१।११५ ॥
[ गान्धारिसाल्वेयाभ्याम् ] गान्धारिश्च साल्वेयश्च = गान्धारिसाल्वेयौ, ताभ्याम् ।
[गान्धारः, गान्धारौ, गान्धारयः] गन्धारस्यापत्यं वृद्धं = गान्धारिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गान्धारीणां राजा, गान्धारे राज्ञोऽपत्यं वा । अनेन अप्र० । गान्धारीणां राजानौ, गान्धारे राज्ञोऽपत्ये वा । गान्धारीणां राष्ट्रस्य राजानः, गान्धारे राज्ञोऽपत्यानि वा = गान्धारयः । अनेन अप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अब्लुप् । सि-औ-जस् । 'जस्येदोत्' (१।४।२२) इ० → ए० । एदैतोऽयाय्' (१।२।२३) अय् ।
ननु दुलक्षणज्यस्य बाधनेन विधानमिदं चरितार्थमिति कुतो विधानसामर्थ्यादित्युक्तम् ? ग(गा)न्धारे राज्ञोऽपत्यमिति पूर्वेणाञ् तथा च सति 'अब्राह्मणात्' (६।१।१४१) इति लोपो न भवति विधानसामर्थ्यादिति विशेषः । ननु गान्धार इत्यत्र लुग(ब)भावे फलमस्ति, लुप्ते गान्धारिरिति स्यात्, स्थिते तु गान्धारः । साल्वेयस्य किं फलम् ? उच्यते-अत्र तु किं कृते अकस्थिते सङ्घादिविवक्षायां 'सङ्घ-घोषा-ऽङ्क०' (६।३।१७२) इति अण् भवति इति विशेषः ।
[साल्वेयः, साल्वेयौ, साल्वेयाः] साल्वा । साल्वाया अपत्यम् । 'द्विस्वरादनद्याः' (६।१।७१) एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । साल्वेयानां राजा, साल्वेयस्यापत्यं युवा वा । अनेन अप्र० → अ । साल्वेयानां राष्ट्रस्य राजानौ, साल्वेयस्याऽपत्ये वा = साल्वेयौ । साल्वेयानां राष्ट्रस्य राजानः, साल्वेयस्याऽपत्यानि वा । अनेन अप्र० । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) अब्लुप् ।
एकत्वद्वित्वयोस्त्वपत्यार्थविवक्षायां 'अब्राह्मणात्' (६।१।१४१) इति लुप् न भवति विधानसामर्थ्यात् । अन्यथा ज्यविधावेवानयोः प्रतिषेधः क्रियेत, तथा च पूर्वेणैवाञ् सिध्यति ।।छ।।