________________
षष्ठाध्यायस्य प्रथमः पादः ॥
७३
[औपगविः ] उपगोरपत्यम् = औपगव इति वाक्येऽनेन प्रत्ययो न भवति प्रायोग्रहणात् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । औपगवस्यापत्यं युवा । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[रामदत्तिः] रामदत्तस्यापत्यम् । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[रामदत्तायनिः पिता-पुत्रः] रामदत्तस्यापत्यम् । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिप्र० → आयनि । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । रामदत्तायनेरपत्यं युवा = रामदत्तायनि: । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'जिदार्षादणिोः ' (६।१।१४०) अण्लुप् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[दाक्षिः] दक्षस्यापत्यम् । 'अत इब्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दाक्षेरपत्यम् । प्रायोग्रहणादत्र प्रत्ययो न भवति ।
[प्लाक्षिः] प्लक्षस्यापत्यम् । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्लाक्षेरपत्यम् । प्रायोग्रहणादत्र प्रत्ययो न भवति ॥छ।।
राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ् ॥ ६।१।११४ ॥ [ राष्ट्रक्षत्रियात् ] राष्ट्रं च क्षत्रियश्च = राष्ट्रक्षत्रियम्, तस्मात् ।
[सरूपात्] समानं रूपं यस्य तत् = सरूपम्, तस्मात् । 'समानस्य धर्माऽऽदिषु' (३।२।१४९) समानस्य सभावः । स इति क्रियते इत्यर्थः ।
[राजाऽपत्ये ] राजा च अपत्यं च, राजानश्च अपत्यानि च वा = राजाऽपत्यम्, तस्मिन् । [द्रिः] द्रि प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [अञ्] अञ् प्रथमा सि । वेति निवृत्तम् । अपत्य इत्यनुवर्तमाने राजेत्यधिकार्थस्य भणनात् ।
[वैदेहः, वैदेहौ, विदेहाः] विदेह । विदेहानां राष्ट्रस्य राजा = वैदेहः । विदेहानां राष्ट्रस्य राजानौ = वैदेहौ । विदेहानां राष्ट्रस्य राजानः = विदेहाः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि-औ-जस् । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् ।
[वैदेहः, वैदेहौ, विदेहाः] विदेहस्य राज्ञोऽपत्यं = वैदेहः । विदेहस्य राज्ञोऽपत्ये = वैदेहौ । विदेहस्य राज्ञोऽपत्यानि = विदेहाः । अनेन अप्र० → अ । सि-औ-जस् । 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् ।
[ऐक्ष्वाकः, ऐक्ष्वाको, इक्ष्वाकवः] इक्ष्वाकु । इक्ष्वाकूणां राष्ट्रस्य राजा, इक्ष्वाकोरपत्यं वा = ऐक्ष्वाकः । इक्ष्वाकूणां राष्ट्रस्य राजानौ, इक्ष्वाकोरपत्ये वा = ऐक्ष्वाकौ । इक्ष्वाकूणां राष्ट्रस्य राजानः, इक्ष्वाकोरपत्यानि वा = इक्ष्वाकवः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'सारवैक्ष्वाक-मैत्रेय-भ्रौणहत्यधैवत्य-हिरण्मयम्' (७।४।३०) उलोपः । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् । सि-औ-जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।