________________
७२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[लाङ्ककायनिः, लाङ्किः] लङ्क । लङ्कस्यापत्यम् । मतान्तरेऽनेनैव आयनिप्र० - कश्च । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० आ । एवम् - लाङ्किः । 'अत इब्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वाकिनकायनिः, वाकिनिः] 'वचं भाषणे' (१०९६) वच् । वक्तीति । 'विपिना०' (उणा० २८४) वाकिननिपात्यते । वाकिनस्यापत्यं = वाकिनकायनिः । अनेन आयनिप्र० - कश्च । एवम्-वाकिनिः । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः ।
[गार्गीपुत्रकायणिः ] पूर्ववत् (६।१।१११) । [गार्गीपुत्रिः] पूर्ववत् (६।१।१११) ।
ककारस्यान्त्यस्वरात् परतो विधानं चर्मि- वर्मिणो कारस्य लोपार्थम् । यद्येवं परादिरेव क्रियेत । नैवम् । तथा सति प्रत्ययस्य व्यञ्जनादित्वात् पुंवद्भावो न सिध्येत् ।
[चार्मिकायणिः ] चर्मिण्या अपत्यं = चार्मिकायणिः । [वार्मिकायणिः] वर्मिण्या अपत्यं = वार्मिकायणिः ॥छ।
अदोरायनिः प्रायः ॥ ६।१।११३ ॥
[अदोः] न दुरदुः, तस्मात् । [आयनिः] आयनि प्रथमा सि । [ प्रायः] प्रायस् तृतीया टा । 'अव्ययस्य' (३।२७) टालुप् ।
[ग्लुचुकायनिः, ग्लौचुकिः] ग्लुचुक । ग्लुचुकस्यापत्यं = ग्लुचुकायनिः । अनेन आयनिप्र० । एवम् - ग्लौचुकिः । 'अत इज्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[म्लुचुकायनिः, म्लौचुकिः] म्लुचुक । म्लुचुकस्यापत्यं = म्लुचुकायनिः । अनेन आयनिप्र० । एवम् - म्लौचुकिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[अहिचुम्बकायनिः, आहिचुम्बकिः] अहीनां चुम्बकः = अहिचुम्बकः, तस्यापत्यम् = अहिचुम्बकायनिः । अनेन आयनिप्र० । एवम् - आहिचुम्बकिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेञ्णिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।।
[त्रिपृष्टायनिः, त्रैपृष्टिः ] त्रीणि पृष्टानि यस्य सः = त्रिपृष्टः, तस्यापत्यं = त्रिपृष्टायनिः । अनेन आयनिप्र० । एवम् - त्रैपृष्टिः । 'अत इज्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[श्रीविजयायनिः, श्रेविजयिः] श्रिया विजयः = श्रीविजयः, तस्यापत्यं = श्रीविजयायनिः । अनेन आयनिप्र० । एवम् - श्रेविजयिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४|१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।