________________
षष्ठाध्यायस्य प्रथमः पादः ।।
चर्मि-वर्मि-गारेट-कार्कट्य-काक-लङ्का-वाकिनाच्च कश्चान्तोऽन्त्यस्वरात् ॥ ६।१।११२ ॥ [चमिवर्मिगारेटकार्कट्यकाकलङ्कावाकिनात् ] चर्मी च वर्मी च गारेटश्च कार्कट्यश्च काकश्च लङ्का च वाकिनश्च = चमिवर्मिगारेटकार्कट्यकाकलङ्कावाकिनम्, तस्मात् ।
[च] च प्रथमा सि । [कश्च] क प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । [अन्तः] अन्त प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [अन्त्यस्वरात् ] अन्त(न्त्य)श्चासौ स्वरश्च = अन्त्यस्वरम्, तस्मात् ।
[चार्मिकायणिः, चार्मिणः] चर्मन् । चर्म अस्यास्ति = चर्मिन् । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लोपः । 'चर्मिणोऽपत्यं = चार्मिकायणिः । अनेन आयनिप्र०- नात् पूर्वं कागमे सति 'नोऽपदस्य तद्धिते' (७४/६१) अन्त्यस्वरलुक् वर्त्तते । एवम् = चार्मिणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । वृद्धिः । 'संयोगादिनः' (७।४।५३) अन्त्यस्वरादिलोपाभावः ।।
[वार्मिकायणिः, वार्मिणः] वर्मन् । वर्म अस्यास्ति = वर्मिन् । 'शिखादिभ्य इन्' (७।२।४) इन्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । वर्मिणोऽपत्यं = वार्मिकायणिः । अनेन आयनिप्र० → आयनि-कश्च । 'नोऽपदस्य तद्धिते' (७४।६१) अन्त्यस्वरलुक् वर्त्तते । एवम्-वार्मिणः । 'ङसोऽपत्ये' (६।२८) अण्प्र० → अ । वृद्धिः । 'संयोगादिनः' (७४/५३) अन्त्यस्वरादिलोपाभावः ।
[गारेटकायनिः, गारेटिः] 'गृश् शब्दे' (१५३८) गृ । गृणाति तत्त्वमिति गारेटः । 'ग्रो णित्' (उणा० १५९) णित् एटप्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । गारेटस्यापत्यं = गारेटकायनिः । अनेन आयनिप्र० → आयनि-कश्चान्ते । एवम्-गारेटिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कार्कट्यकायनिः, कार्कट्यायनः ] कर्कट । कर्कटस्यापत्यं वृद्धं = कार्कट्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । कार्कट्यस्यापत्यं = कार्कट्यकायनिः । अनेन आयनिप्र० - कश्च । एवम्-कार्कट्यायनः । 'यजिञः' (६।१५४) आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलोपः ।
यदा त्वव्युत्पन्नः कार्कट्यशब्दस्तदा पक्षे
[कार्कटियः] कार्कट्यस्यापत्यं = कार्कटियः । 'अत इब्' (६।१।३१) इप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[काककायनिः, काकिः] काक ऋषिविशेषः । काकस्यापत्यं = काककायनिः । अनेन आयनिप्र० - कश्च । एवम् - काकिः । 'बाह्वादिभ्यो गोत्रे (६।१।३२) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वृद्धिः । __ [लाङ्ककायनिः, लाङ्केयः] लङ्काया अपत्यं = लाङ्ककायनिः । अनेन आयनिप्र० - कश्च । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । एवम्-लालेयः । 'द्विस्वरादनद्याः' (६।१।७१) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।