________________
७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पाञ्चालायनिः, पाञ्चालिः] पञ्चाल । पञ्चालानां राजा = पाञ्चालः । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पाञ्चालस्यापत्यं = पाञ्चालायनिः । अनेन आयनिप्र० → आयनि । एवम्-पाञ्चालिः । 'अत इब्' (६।१।३१) इप्र० । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ।
[नापितायनिः, नापित्यः] नापित । नापितस्यापत्यं = नापितायनिः । अनेन आयनिप्र० → आयनि । एवम् - नापित्यः । 'कुर्वादेर्व्यः' (६।१।१००) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[दाक्षायणः] दक्षस्यापत्यं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । दाक्षेरपत्यम् । 'यजिञः' (६।१।५४) आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) इलुक् ।।
[प्लाक्षायणः] प्लक्षस्यापत्यं = प्लाक्षिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्लाक्षेरपत्यम् । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[आकम्पनिः] अकम्पन । अकम्पनस्यापत्यम् = आकम्पनिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
पुत्रान्तात् ॥ ६।१।१११ ॥ [पुत्रान्तात् ] पुत्रोऽन्ते यस्य तत् = पुत्रान्तम्, तस्मात् ।
[गार्गीपुत्रायणिः, गार्गीपुत्रिः] गर्ग । गर्गस्यापत्यं वृद्धं = गार्यः । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी० → ई० । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । गार्याः पुत्रः = गार्गीपुत्रः । गार्गीपुत्रस्यापत्यं = गार्गीपुत्रायणिः । अनेन आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम् - गार्गीपुत्रिः । 'अत इञ्' (६।१।३१) इप्र० ।
[वासवदत्तापुत्रायणिः, वासवदत्तापुत्रिः] वासवदत्तायाः पुत्रः = वासवदत्तापुत्रः । वासवदत्तापुत्रस्यापत्यं = वासवदत्तापुत्रायणिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७४।१) वृ० । एवम् - वासवदत्तापुत्रिः । 'अत इञ्' (६।१।३१) इप्र० ।
पूर्वेणायनिजि सिद्धे वचनमिदमुत्तरसूत्रप्राप्तकागमाभावार्थम् ।
[गार्गीपुत्रकायणिः] गार्गीपुत्रस्यापत्यं = गार्गीपुत्रकायणिः । 'चर्मि-वर्मि-गारेट-कार्कट्य-काक-लङ्का-वाकिनाच्च कश्चान्तोऽन्त्यस्वरात्' (६।१।११२) आयनिप्र० - अन्त्यस्वरात् परः क गच्छति । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
इति तार्तीयीकमपि रूपं भवति
[तार्तीयीकम् ] तृतीय । तृतीयमेव = तार्तीयीकम् । 'तीयाट्टीकण, न विद्या चेत्' (७२।१५३) टीकण्प्र० → ईक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।