________________
षष्ठाध्यायस्य प्रथमः पादः ।।
[अणः] अण् पञ्चमी ङसि ।
[काळयणिः] कर्तृ । कर्तुरपत्यं वृद्धं = कात्रः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । 'इवर्णादेरस्वे०' (१।२।२१) र० । कात्रस्यापत्यं युवा = काळयणिः । अनेन आयनिप्र० → आयनि । ब्राह्मणत्वात् सर्वेषु 'अब्राह्मणात्' (६१।१४१) इति न लुप् ।।
[हाळयणिः ] हर्तृ । हर्तुरपत्यं वृद्धम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । हास्यापत्यं = हा यणिः । अनेन आयनिप्र० → आयनि ।
[पौत्रायणिः] पोतृ । जपोतुरपत्यं वृद्धं = पौत्रम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । पौत्रस्यापत्यं युवा = पौत्रायणिः । अनेन आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) सर्वत्र णत्वम् ।
[यास्कायनिः] यस्क । यस्कस्यापत्यं वृद्धम् । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यास्कस्यापत्यं युवा = यास्कायनिः । अनेन आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[औपगविः] औपगव । औपगवस्यापत्यम् = औपगविः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ब्राह्मणत्वात् इञ् न लुप् ।
[दाक्षायणः] दक्ष । दक्षस्यापत्यं = दाक्षिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । दाक्षेरपत्यं वृद्धम् । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
[आङ्गिः, आङ्गायनिर्वा] अङ्ग । अङ्गानां राजा = आङ्गः । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । आङ्गस्यापत्यम् = आङ्गिः, आङ्गायनिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।
अवृद्धाद् दोर्नवा ॥ ६।१।११० ।। [अवृद्धात् ] न वृद्धम् = अवृद्धम्, तस्मात् । [ दोः ] दु पञ्चमी ङसि । [नवा] नवा प्रथमा सि ।
[आम्रगुप्तायनिः, आम्रगुप्तिः] आम्रगुप्तस्यापत्यम् = आम्रगुप्तायनिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । एवम्-आम्रगुप्तिः । 'अत इञ्' (६।१।३१) इप्र० ।
[शालगुप्तायनिः, शालगुप्तिः] सा(शा)लगुप्तस्यापत्यं = सा(शा)लगुप्तायनिः । अनेन आयनिप्र० → आयनि । एवम्-सा(शा)लगुप्तिः । 'अत इञ्' (६।१।३१) इप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ।
[वायुरथायनिः, वायुरथिः] वायुरथ । वायुरथस्यापत्यं = वायुरथायनिः । अनेन आयनिप्र० → आयनि । एवम् - वायुरथिः । 'अत इञ्' (६।१।३१) इप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।६८) वृद्धिः ।
॥ श० म० न्या० - पुत्रस्यापत्यं पौत्रः ।