________________
६८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[औरश] 'उरिः सौत्रो धातुर्गत्यर्थः'-उर् । उरति प्रतिष्ठाम् = उरशः । 'उरेरशक्' (उणा० ५३१) अशक्प्र० → अश । उरशस्यापत्यम् = औरशः । 'राष्ट्र-क्षत्रियात्' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कौरव्यशब्दः] कुरु । कुरूणां राजा-कुरो राज्ञोऽपत्यं वा = कौरव्यः । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः' (६।१।११८) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
। क्षत्रियप्रत्ययान्त एव गृह्यते, अन्यस्मात् ब्राह्मणवाचिनः इव तस्य च 'जिदा दणिजोः' (६।११४०) इति लुप् ।
[कौरव्यः पिता, कौरव्यः पुत्रः] कुरोर्ब्राह्मणस्यापत्यं वृद्धं = कौरव्यः । 'कुर्वादेर्व्यः' (६।१।१००) ज्यप्र० → य । ‘वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव्, तस्यापत्यं युवा । 'अत इञ्' (६।१।३१) इप्र० → इ । 'जिदार्षादणिोः ' (६।१।१४०) इञ्लुप् । अनेन विहितस्य आयनिअस्तु 'अब्राह्मणात्' (६।१।१४१) इति सूत्रेण प्राप्तापि लुप् न भवति विधानसामर्थ्याद् । लुपि हि सति अक्षत्रियवचनस्य कौरव्यशब्दस्य परिहारे फलं न स्यात् । नहीज आयनिञो वा लुपि कश्चिद्विशेष:
[कौरव्यः पिता, कौरव्यायणिः पुत्रः] कुरोरपत्यं = कौरव्यः । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः' (६।१।११८) ज्यप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव्, तस्यापत्यं युवा । 'तिकादेरायनिज्' (६।१।१०७) आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।
शल-कार-च्छाग-वृषाद् यादिः ॥ ६।१।१०८ ।।
[दगुकोशलकारच्छागवृषात् ] दगुश्च कोशलश्च कर्मारश्च छागश्च वृषश्च = दगुकोशलकारच्छागवृषम्, तस्मात् । [यादिः] य आदिर्यस्य सः = यादिः ।
[दागव्यायनिः] दगु । दगोरपत्यं = दागव्यायनिः । अनेन आयनिप्र० - यकारादिः । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[कौशल्यायनिः] कोशलस्यापत्यं = कौशल्यायनिः । अनेन आयनिप्र० - यकारादिः । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[कौशल्यः] येन केनैव शब्देन देशा राजानश्च उच्यन्ते तेभ्यो ‘दु-नादि०' (६।१।११८) इत्यादिना ज्यः । कोस(श)लानां देशानां राजा, कोशलराज्ञोऽपत्यं वा । 'दु-नादि-कुर्वित्' (६।१।११८) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कार्मार्यायणिः] कार । कारस्यापत्यं = कार्यायणिः । अनेन आयनिप्र० - यकारादिः । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[छाग्यायनिः] छाग । छागस्यापत्यं = छाग्यायनिः । अनेन आयनिप्र० - यकारादिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वार्ष्यायणिः] वृष । वृषस्यापत्यं = वार्ष्यायणिः । अनेन आयनिप्र० - यकारादिः । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
द्विस्वरादणः ॥ ६।१।१०९ ॥ [द्विस्वरात् ] द्वौ स्वरौ यत्र तत् = द्विस्वरम्, तस्मात् ।