________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[वाायणीयः, वार्ष्यायणिकः, वार्ष्यायणिर्वा] वृषस्यापत्यं वृद्धं = वार्ष्यायणिः । 'दगु-कोशल-कार-च्छागवृषाद् यादिः' (६।१।१०८) यकारादिरायनिप्र० → यायनि । 'वृद्धिः स्वरे०' (७।४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । वार्ष्यायणेरपत्यं युवा निन्दितः । अनेन ईय-इकणप्र० → इक । एवम्-वार्ष्यायणिः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'बिदार्षादणिोः ' (६।१।१४०) अण्लुप् ।
[तैकायनीयः] तिक । तिकस्यापत्यं = तैकायनिः । 'तिकादेरायनिञ्' (६।१।१०७) आयनिप्र० → आयनि । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । तैकायनेरपत्यं युवा = तैकायनीयः । मतान्तरे अनेनैव ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[सौयामायनिः] सौयामायनेरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'जिदार्षादणिोः ' (६।१।१४०) अण्लुप् । [यामुन्दायनिः] यामुन्दायनेरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'बिदार्षादणिोः ' (६।१।१४०) अण्लुप् । [वार्ष्यायणिः] वार्ष्यायणेरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'जिदार्षादणिोः ' (६।१।१४०) अण्लुप् छ।।
तिकादेरायनिञ् ॥ ६।१।१०७ ।। [तिकादेः तिक आदिर्यस्य सः तिकादिः, तस्मात् । [आयनिञ्] आयनिञ् प्रथमा सि ।
[तैकायनिः] तिकस्यापत्यं = तैकायनिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कैतवायनिः] कितव । कितवस्यापत्यं = कैतवायनिः । अनेन आयनिप्र० , आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[सैन्धव] सिन्धु । सिन्धुषु भवः = सैन्धवः । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० । नृ-नृस्थाभ्यामन्यः नृ(नरि)-नृस्थे तु विशेषविधानात् कच्छादित्वादकञ् स्यात् । सिन्धुराभिजनो निवासोऽस्य । 'सिन्ध्वादेरञ्' (६।३।२१६) अञ् वा ।
[आरथ्य ] रथाय हिता = रथ्या । 'तस्मै हिते' (७।१।३५) - 'प्राण्यङ्ग०' (७१।३७) यप्र० । रथ्याया आगतः ।
[शाट्यायनिः] शट । शटस्यापत्यं वृद्धम् । 'गर्गादेर्यब्' (६।११४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । अथवा 'शट रुजाविशरणगत्यवशातनेषु' (१७५) शट् । शट्यते = शाट्यः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । 'णिति' (४।३।५०) उपान्त्यवृद्धिः । शाट्यस्यापत्यं = शाट्यायनिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[शाट्यायनः ] 'शट रुजाविशरणगत्यवशातनेषु' (१७५) शट् । शटते(ति)=शटः । 'अच्' (५।१।४९) अच्प्र० → अ । शटस्यापत्यं वृद्धम् । 'गर्गादेर्यन्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । शाट्यस्यापत्यं शाट्यायनः । 'यञिञः' (६।१।५४) आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
॥ श० म० न्या० - तिकशब्द आदौ यस्य, तस्मात् ।