________________
७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[भार्गः] भर्गाणां राष्ट्रस्य राजा, भर्गस्य राज्ञोऽपत्यं वा = भार्गः ।
[भर्गाः] भर्गस्य राज्ञोऽपत्यानि, भर्गाणां राष्ट्रस्य राजानो वा = भर्गाः ।
[साल्वः] साल्वानां राष्ट्रस्य राजा, साल्वस्य राज्ञोऽपत्यं वा = साल्वः ।
[साल्वाः] साल्वानां राष्ट्रस्य राजानः, साल्वस्य राज्ञोऽपत्यानि वा = साल्वाः । सर्वत्र अनेन अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप्।
पुरुग्रहणमराष्ट्रसरूपार्थम् । अस्ति राजा पुरुर्नाम न तु राष्ट्रम् । तस्यौत्सर्गिकेणैवाणा सिद्धे बहुषु लुबर्थमिदमविधानम् । अजैव सिद्धेऽण्विधानं सङ्घाद्यबाधनार्थम् । तेनाकञ् भवति
[पौरवकम् ] पुरोरपत्यानि = पुरवः । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । पुरूणां सङ्घादिः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकप्र० विषये 'न प्राजितीये स्वरे' (६।१।१३५) इति लुप्तस्यापि निवृत्तिः । अकप्र० । वृद्धिः । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
[मागधकम् ] मगधस्यापत्यानि = मगधाः । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । मगधानां सङ्घादिः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकञ्प्र० विषये 'न प्राजितीये स्वरे' (६।१।१३५) लुप्तस्यापि निवृत्तिः । अकप्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[कालिङ्गकम्] कलिङ्गस्य अपत्यानि । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । कलिङ्गानां सङ्घादिः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि - अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[सौरमसकम् ] सूरमसस्य अपत्यानि । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । सूरमसानां सङ्घादिः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[आङ्गकम्] अङ्गस्य अपत्यानि । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । अङ्गानां सङ्घादिः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि - अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[वाङ्गकम्] वङ्गस्य अपत्यानि । अनेन अण्प्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । वङ्गानां सङ्घादिः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि - अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ।
अजन्ताद्धि गोत्रात् अञ्यजिञः (६।३।१७२) इत्यण्बाधकः स्यात् । अयमर्थः - 'गोत्राददण्ड०' (६।३।१६९) इति विहितस्य अकजो बाधकः 'सङ्घ-घोषा-ऽङ्क०' (६।३।१७२) इत्यण् स्यात् ॥छ।।
साल्वांश-प्रत्यग्रथ-कलकूटाऽश्मकादिञ् ॥ ६।१।११७ ।।
[साल्वांशप्रत्यग्रथकलकूटाऽश्मकात्] साल्वानामंशाः = साल्वांशाः । साल्वांशाश्च प्रत्यग्रथश्च कलकूटश्च अश्मकश्च = साल्वांशप्रत्यग्रथकलकूटाऽश्मकम, तस्मात् ।
[इञ्] इञ् प्रथमा सि ।