________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[वार्धकिः, वार्धक्यः] + 'वृधूङ् वृद्धौ' (९५७) वृध् । भवर्धते सूत्रधारणादिज्ञानमिति वर्धकिः । 'वर्द्धरकिः' (उणा० ६२४) अकिप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । *वर्धकेरपत्यम् । अनेन इञ्प्र० → इ - ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ ।
[कौम्भकारिः, कौम्भकार्यः ] कुम्भकारस्य कुम्भकार्या वा अपत्यम् । भाष्यकारस्तु स्त्रियां कौम्भकारेय इति मन्यते । अनेन इञ्प्र० → इ - ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अ-ईलुक् ।
रथकारादिअपीत्येके रथकारशब्दोऽजातिवाची चास्ति इत्याह ।
[लामणिः, लाक्ष्मण्यः] लक्ष्मीरस्यास्ति पुण्यातिशयेन = लक्ष्मणः । 'लक्ष्म्या अनः' (७।२।३२) अनप्र० । लक्ष्मणस्यापत्यम् । अनेन इप्र० → इ - ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
ऋषि-वृष्ण्यन्धक-कुरुभ्योऽण, झ्याप्त्यूङन्तेभ्यस्तु एयण परत्वादाभ्यामिञ्-ज्याभ्यां बाध्यते ।
[जातसेनिः, जातसेन्यः] जातसेनस्यापत्यम् । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्राप्तेऽनेन इप्र० → इ - ज्यश्चप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वैष्वक्सेनिः, वैष्वक्सेन्यः] विषूची सेना यस्य सः = विष्वक्सेनः नारायणः । विष्वक्सेनस्यापत्यं = वैष्वक्सेनिः, वैष्वक्सेन्यः । अनेन इञ् - ञ्यप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ ।।
[औग्रसेनिः, औग्रसेन्यः] उग्रा सेना यस्य सः = उग्रसेनः । उग्रसेनस्यापत्यम् । अनेन इञ् - ज्यप्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ ।
[भैमसेनिः, भैमसेन्यः] भीमा सेना यस्य सः = भीमसेनः । भीमसेनस्यापत्यम् । अनेन इञ् - ज्यश्च । 'वृद्धिः स्वरे०' (७४।१) वृ० ऐ।
[तान्तुवायिः, तान्तुवाय्यः] तन्तुवाय 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । तन्तुवाय्या अपत्यम् । अनेन इञ् - ज्यश्च । 'जातिश्च णि-तद्धितय-स्वरे' (३।२।५१) पुंवत् । शेषं पूर्ववत् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
सुयाम्नः सौवीरेष्वायनिञ् ॥ ६।१।१०३ ॥ [सुयाम्नः] सुयामन् पञ्चमी ङसि । 'अनोऽस्य' (२।१।१०८) अलुक् ।
[सौवीरेषु] शोभनो वीरो यस्य सः = सुवीरः । सुवीरस्याऽयम् । 'तस्येदम्' (६।३।१६०) अण्प्र० । सौवीरस्यापत्यानि । 'दु-नादि०' (६।१।११८) ञ्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । सौवीर सप्तमी सुप् । 'एद् बहुस्भोसि' (१।४।४) र० → रे० ।।
[आयनिञ्] आयनिञ् प्रथमा सि ।
[सौयामायनिः, सौयामः] सुयामन् । सुयाम्नः सौवीरदेशस्थापत्यं = सौयामायनिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लोपः । अन्यत्र 'ङसोऽपत्ये'
उणादौ - 'वर्धण् छेदन-पूरणयोः' । * श० म० न्या० - वर्धकः काष्ठशिल्पी, तस्यापत्यम् । ॐ अभिधानचिन्तामणिनाममालायाम् - वर्धयति- छिनत्ति = वर्धकिः ।