________________
षष्ठाध्यायस्य प्रथमः पादः ।।
६३
[शाङ्कव्यायनी ] शाङ्कव्यस्यापत्यं युवा स्त्री चेत् । 'यञिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'लोहितादि०' (२।४।६८) ङी ।
ऐन्द्रजालेः कापिञ्जलादेरपत्यं युवेत्यादौ कृते 'यञिञः' (६।१।५४) आयनण प्राप्तः स वार्यते इत्यर्थः ॥छ।।
सम्राजः क्षत्रिये ॥ ६।१।१०१ ॥
[सम्राजः ] सम्राज् पञ्चमी ङसि । [क्षत्रिये] क्षत्रिय सप्तमी ङि ।
[साम्राज्यः क्षत्रियश्चेत् ] सम् 'राजृग् दीप्तौ' (८९३) राज् । सम्राजते । क्विप्र० । 'सम्राट्' (१।३।१६) इत्यनेन सम्राज् निपात्यते । सम्राजोऽपत्यं = साम्राज्यः । अनेन ञ्यप्र० → य, क्षत्रियश्चेत् ।
[साम्राजः] सम्राजोऽपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ ।
[सामाज्रिः] सम्राजोऽपत्यम् । मतान्तरे 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ ॥छ।
सेनान्त-कारु-लक्ष्मणादिञ् च ॥ ६।१।१०२ ॥ [सेनान्तकारुलक्ष्मणात्] असेना अन्ते येषां ते = सेनान्ताः । सेनान्ताश्च कारवश्च लक्ष्मणश्च = सेनान्तकारुलक्ष्मणम्, तस्मात् ।
[इञ्] इञ् प्रथमा सि । [च] च प्रथमा सि ।
[हारिणिः , हारिषेण्यः] हरयः सेनायां यस्य सः = हरिषेणः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'एत्यकः' (२।३।२६) षत्वम् । हरिषेणस्यापत्यं = हारिषेणिः, हारिषेण्यः । अनेन इप्र० → इ - ञ्यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वारिषेणिः, वारिषेण्यः] वारि-जलं सेनायां यस्य सः = वारिषेणः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'एत्यकः' (२।३।२६) षत्वम् । वारिषेणस्यापत्यम् । अनेन इप्र० → इ - ज्यप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[तान्तुवायिः, तान्तुवाय्यः] तन्तु 'वेंग् तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा । तन्तून् वयति = तन्तुवायः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'आत ऐ: कृौ ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । तन्तुवायस्यापत्यम् । अनेन इप्र० → इ - ब्यप्र० → य ।
[तौन्नवायिः, तोन्नवाय्यः] तुन्नं वयति = तुन्नवायः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'आत ऐ: कृौ ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । तुन्नवायस्यापत्यम् । अनेन इप्र० → इ - ज्यप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
卐 श० म० न्या० - सेन शब्दोऽन्ते येषां ते = सेनान्ताः ।