________________
षष्ठाध्यायस्य प्रथमः पादः ॥
(६।१।२८) अण्प्र० → अ । 'अवर्मणो मनोऽपत्ये' (७।४।९) अन्त्यस्वरादिलोपः । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ ॥छ।
पाण्टाति-मिमताण्णश्च ॥ ६।१।१०४ ।। [पाण्टातिमिमतात्] पुण्टा(पाण्टा)हृतिश्च मिमतश्च = पाण्टाहृतिमिमतम्, तस्मात् । [णश्च] ण प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि ।
[पाण्टाहृतः, पाण्टाहृतायनिर्वा] पुण्ट(पाण्ट) 'हंग् हरणे' (८८५) हृ, आपूर्व० । पुण्टेन(पाण्टेन) आहियते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । पाण्टाहृतस्यापत्यं = पाण्टाहतिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पाण्टाहृतेरपत्यं युवा सौवीरगोत्रः । अनेन णप्र० → अकारः । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । अनेन आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[मैमतः, मैमतायनिर्वा] मिमत । मिमतस्यापत्यं सौवीरगोत्रः । अनेन णप्र० → अ - आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पाण्टाहतायनः ] पण्टेनाहियते स्म । शाकटस्तु पाण्टेनानायाससाध्येनाहियते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । तस्यापत्यम् । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । पाण्टाहृतेरपत्यं वृद्धम् । 'यञिञः' (६।१।५४) आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[मैमतायनः] 'मांङ्क् मान-शब्दयोः' (११३७) मा । मीयते-परिच्छिद्यते ऋषित्वेन । 'पुत-पित्त-निमित्तोत-शुक्ततिक्त-लिप्त-सूरत-मुहूर्तादयः' (उणा० २०४) कित् तप्र० निपातः । मा बुधि (१२६२) - 'मर्निच् ज्ञाने' (१२६३) मन् । मया-लक्ष्म्या मन्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यमि-रमि-नमि-गमि-हनि-मनि०' (४।२।५५) नलोपः । 'पृषोदरादयः' (३।२।१५५) मिमतनिपातो वा । मिमतस्यापत्यं वृद्धम् । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[मैमतिः] मिमत । मिमतस्यापत्यमनन्तरं = मैमतिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
भागवित्ति-तार्णविन्दवा-ऽऽकशापेयान्निन्दायामिकण् वा ॥ ६।१।१०५ ॥ [भागवित्तितार्णविन्दवाऽऽकशापेयात् ] भागवित्तिश्च तार्णविन्दवश्च आकशापेयश्च = भागवित्तितार्णविन्दवाऽऽकशापेयम्, तस्मात् ।
[निन्दायाम् ] निन्दा सप्तमी ङि । [इकण्] इकण प्रथमा सि [वा] वा प्रथमा सि ।
[भागवित्तिकः, भागवित्तायनो वा जाल्मः ] भगेन-ज्ञानेन वित्तः-प्रसिद्धः, तस्यापत्यं वृद्धम् । 'अत इञ्' (६।१।३१) इप्र० → इ। 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अथवा भग 'विद्रोंती लाभे' (१३२२) विद् । भगेन-ज्ञानेन विद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'अघोषे