________________
६०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[मानवः] मनोरपत्यं = मानवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । प्रथमा सि ।
_ [मानवाः] मनोरपत्यानि = मानवाः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । प्रथमा जस् ।
[मानवीः प्रजाः पश्य ] मनोरपत्यानि स्त्रियश्चेत् मानव्यः प्रजाः तां (ताः) = मानवीः । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक् (२।४।८६) अलुक् । अत्र हि मनोरपत्यमित्येतावानेवार्थो विवक्षितो न जातिः, तेन षोऽन्तो न भवति ।
[मानव्यः] मनोरपत्यं वृद्धं = मानव्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव' (७४/७०) अव् ।
[मानव्यौ ] मनोरपत्ये वृद्धे = मानव्यौ । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् ।
[मनवः] मनोरपत्यानि वृद्धानि = मनवः । 'गर्गादेर्यन्' (६।१।४२) यप्र० → य । 'यज्ञोऽश्या०' (६।१।१२६) यञ्लुप् । प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[मानव्यायनी] मनु । मनोरपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'लोहितादिशकलान्तात्' (२।४।६८) ङी - डायन् → आयन् । 'डित्यन्त्यस्वरादेः' (२।१२११८) अन्त्यस्वरादिलोपः । 'स्त्रियां नृतोऽस्व०' (२।४।१) ङी । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ॥छ।
माणवः कुत्सायाम् ॥ ६१।९५ ॥
[माणवः] माणव प्रथमा सि । [कुत्सायाम् ] कुत्सा सप्तमी ङि । 'आपो ङितां यै०' (१।४।१७) ङि ० → याम् ।
[माणवः] मनु । मनोरपत्यं कुत्सितं मूढं = माणवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ - न० → णश्च । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ॥छ।।
कुलादीनः ॥ ६।१।९६ ॥ [कुलात्] कुल पञ्चमी ङसि । '२-ङस्योर्या-ऽऽतौ' (१।४।६) ङसि० → आत् । [ईनः ] ईन प्रथमा सि । [कुलीनः] कुलस्यापत्यं = कुलीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[बहुकुलीनः] ईषदपरिसमाप्तं कुलं = बहुकुलम्, तस्यापत्यं = बहुकुलीनः । 'नाम्नः प्राग्बहुर्वा' (७३।१२) बहुशब्दस्य पूर्वनिपातः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[क्षत्रियकुलीनः] क्षत्रियस्य कुलं = क्षत्रियकुलम्, क्षत्रियकुलस्यापत्यं = क्षत्रियकुलीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
एषु अत इञः अदोरायनेश्चापवादः ।