________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[श्वशुर्यः] श्वशुर । श्वशुरस्यापत्यं = श्वशुर्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[श्वाशुरिः] श्वशुरो नाम कश्चित् तस्यापत्यं = श्वाशुरिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० आ । प्रथमा सि । 'सो रुः' (२।१७२) स० → २० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।।
जातौ राज्ञः ॥ ६।१।९२ ॥
[जातौ ] जाति सप्तमी ङि । 'ङिडौँ' (१।४।२५) ङि० → डौ० → औ० ।
[राज्ञः] राजन् पञ्चमी ङसि । 'अनोऽस्य' (२।१।१०८) अलुक् ।।
[राजन्यः क्षत्रियजातिश्चेत् ] राजन् । राज्ञोऽपत्यं = राजन्यः । अनेन यप्र० । 'नोऽपदस्य तद्धिते' (७४।६१) इति नस्य लोपो न 'अनोऽट्ये ये' (७।४।५१) इत्यनेन अन्त्यस्वरादिलोपनिषेधात् । क्षत्रियजातिश्चेत् ।
[राजनोऽन्यः] राज्ञोऽपत्यं = राजनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अणि' (७४।५२) इत्यनेन अन्त्यस्वरादिलोपनिषेधः । अन्य प्रथमा सि ॥छ।।
क्षत्रादियः ॥ ६।१।९३ ॥
[क्षत्रात्] क्षत्र पञ्चमी ङसि ।
[इयः ] इय प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[ क्षत्रियः जातिश्चेत् ] क्षत्रस्यापत्यं = क्षत्रियः । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । क्षत्रियजातिश्चेत् ।
[क्षात्रिरन्यः] यदि जातिरपत्यस्य न गम्यते, किंतु क्षत्रस्यापत्यं इत्येतावदेव तत इयाभावे 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वा०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अन्य प्रथमा सि ॥छ।।
मनोर्याणौ षश्चान्तः ।। ६।१।९४ ॥
[मनोः] मनु पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां ङसि - ङसो र:' (१।४।३५) ङसि० → र० ।
[याणौ] यश्च अण् च = याणौ । [षश्च] ष प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । [अन्तः] अन्त प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[मनुष्याः, मानुषाः] मनु । मनोरपत्यानि = मनुष्याः, मानुषाः । अनेन य - अण्प्र० → अ - षोऽन्तश्च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । प्रथमा जस् ।
[मनुषी, मानुषी] मनोरपत्यं स्त्री = मनुषी, मानुषी । अनेन य - अण्प्र० → अ - षोऽन्तश्च । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । प्रथमे 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी । 'अस्य ङ्यां लुक् (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलोपः । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ।