SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [भ्रातृव्यः] भ्रातृ । भ्रातुरपत्यं = भ्रातृव्यः । अनेन व्यप्र० । शत्रुरपि भ्रातृव्य उच्यते स उपचारात् । एकद्रव्याभिलाषश्चोपचारनिमित्तम् ।।छ।। ईयः स्वसुश्च ॥ ६।१।८९ ॥ [ईयः] ईय प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [स्वसुः] स्वसृ पञ्चमी ङसि । 'ऋतो डुर्' (१।४।३७) ङसि० → डुर्० → उर्० | [च] च प्रथमा सि । [भ्रात्रीयः] भ्रातृ । भ्रातुरपत्यं = भ्रात्रीयः । अनेन ईयप्र० । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । [ स्वस्त्रीयः ] स्वसृ । स्वसुरपत्यं = स्वस्त्रीयः । अनेन ईयप्र० । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् ॥छ।। मातृ - पित्रादेर्डेयणीयणौ ॥ ६१९० ॥ [मातृपित्रादेः] माता च पिता च = मातृपितरौ, तावादी यस्य । शब्दप्राधान्याश्रयणात् 'आ द्वन्द्वे' (३।२।३९) न आत्वं योनिसंबन्धाभावात्, तस्मात् । [ डेयणीयणौ ] डेयण च ईयण च = डेयणीयणौ । [मातृष्वसेयः, मातृष्वस्त्रीयः] मातृ - स्वसू । मातुः स्वसा = मातृष्वसा । 'मातृ - पितुः स्वसुः' (२।३।१८) षत्वम् । मातृष्वसुरपत्यं = मातृष्वसेयः, मातृष्वस्त्रीयः । अनेन डेयणप्र० → एयण् - ईयणप्र० → ईय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोप: । 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । [ पैतृष्वसेयः, पैतृष्वस्त्रीयः] पितुः स्वसा = पितृष्वसा । 'मातृ - पितुः स्वसुः' (२।३।१८) षत्वम् । पितृष्वसुरपत्यं = पैतृष्वसेयः, पैतृष्वस्रीयः । अनेन डेयणप्र० → एय - ईयणप्र० → ईय । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'इवर्णादेरस्व०' (१।२।२१) रत्वम् । [परममातृष्वसुरपत्यम् ] मातुः स्वसा = मातृष्वसा । परमा चासौ मातृष्वसा च, तस्या अपत्यम् । [परमपितृष्वसुरपत्यम् ] पितुः स्वसा = पितृष्वसा । परमा चासौ पितृष्वसा च, तस्या अपत्यम् । यथाप्राप्तोऽणपि भवति पक्षे - [मातुःस्वस्त्रः, मातुःष्वस्त्रः] मातुः स्वसा (२) । मातुः स्वसुरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ। 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । 'स्वसृ - पत्योर्वा' (३।२।३८) अलुप्समासः । अलुपि वा (२।३।१९) विकल्पेन षत्वम् । [पैतुःस्वस्त्रः, पैतुःष्वस्त्रः] पितुः स्वसा (२) । पितुः स्वसुरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ। 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । 'स्वसृ - पत्योर्वा' (३।२।३८) अलुप्समासः । 'अलुपि वा' (२।३।१९) विकल्पेन षत्वम् ॥छ। श्वशुराद् यः ॥ ६।१।९१ ।। [श्वशुरात्] श्वशुर पञ्चमी ङसि । [यः] य प्रथमा सि ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy