________________
षष्ठाध्यायस्य प्रथमः पादः ।।
(४।३।८३) णिच्लुक् । 'अणजेयेकण् - नञ्' (२।४।२०) ङी । अश्वपाल्या अपत्यम् = आश्वपालिकः । अनेन इकण्प्र० → इक । 'जातिश्च णि - तद्धितय - स्वरे' (३।२।५१) पुंवत् । 'वृद्धिः स्वरे०' (७४।१) वृ० आ ।
द्वारपाल्यन्तानामयणोऽपवादः , यदि मानुषीनाम तदा 'अदोर्नदी०' (६।११६७) अणोऽपि, वृकवञ्चिनो 'डसोऽपत्ये' (६।१।२८) अण, शेषाणां 'अत इञ्' (६।१।३१) इतीजोऽपवादः ॥छ।।
वृद्धस्त्रियाः क्षेपे णश्च ॥ ६।१८७ ।। [वृद्धस्त्रियाः] वृद्ध वृद्धा वा चासौ स्त्री च = वृद्धस्त्री, तस्याः = वृद्धस्त्रियाः । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् । 'स्त्रियाः' (२।१।५४) इय् ।
[क्षेपे] क्षेप सप्तमी ङि । [णश्च ] ण प्रथमा सि । च प्रथमा सि ।
पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः ।
[गार्गः, गार्गिको वा जाल्मः ] गर्ग । गर्गस्यापत्यं वृद्धं स्त्री गर्गः(गार्गी) । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । गार्या अपत्यं युवा = गार्गः - गार्गिको वा । अनेन णप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । एवं अनेन इकणप्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । प्रथमं प्रत्यये गते 'जातिश्च णि - तद्धितय - स्वरे' (३।२।५१) पुंवद्भावे 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
[ग्लौचुकायनो ग्लौचुकायनिको वा जाल्मः ] ग्लुचुक । ग्लुचुकस्यापत्यं वृद्धं = ग्लुचुकायनी । 'अदोरायनिः प्रायः' (६।१।११३) आयनिप्र० । 'नुर्जातेः' (२।४।७२) ङी । ग्लुचुकायन्या अपत्यं युवा । अनेन णप्र० । 'जातिश्च०' (३२।५१) पुंवत् - ङीनिवृत्तौ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः । अनेनैव इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः । वृद्धाद् यूनि' (६।१।३०) इति यूनीमौ प्रत्ययौ ।
[कारिकेयो जाल्मः ] कारिका । कारिकाया अपत्यं = कारिकेयः । 'याप्त्यूङः' (६।१७०) एयणप्र० → एय। 'तद्धिताऽककोपान्त्य - पूरण्याख्याः' (३।२।५४) पुंवद्भावनिषेधः । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । __ [औपगविर्जाल्मः ] गोः समीपम् । 'गोश्चान्ते ह्रस्वोऽनंशिसमासेयोबहुव्रीहौ (२।४।९६) ह्रस्वः । उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । औपगवस्यापत्यम् । 'अत इब्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[गार्गेयो माणवकः] गार्गी । गार्या अपत्यं = गार्गेयः । 'ङ्याप्त्यूङः' (६।१७०) एयणप्र० → एय । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । माणवकः । मातुः संविज्ञानार्थमिदमुच्यते ॥छ।।
भ्रातुर्व्यः ॥ ६।१।८८ ॥ [भ्रातुर्व्यः ] भ्रातृ पञ्चमी ङसि । 'ऋतो डुर्' (१।४।३७) ङसि० → डुर्० → उर् | व्य प्रथमा सि ।