________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[वात्स्याऽऽत्रेये] वात्स्यश्च आत्रेयश्च = वात्स्याऽऽत्रेयम्, तस्मिन् ।
[वैकर्णो वात्स्यः] विशिष्टौ कर्णौ यस्य सः = विकर्णः । विकर्णस्यापत्यं = वैकर्णः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वैकर्णिरन्यः] विकर्णस्यापत्यमनन्तरं = वैकणिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[छागल आत्रेयः] छगलस्यापत्यं = छागलः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । अत्रेरपत्यम् = आत्रेयः । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् ।
[छागलिरन्यः ] छगलस्यापत्यमनन्तरम् । ऋषित्वेऽपि व्यावृत्तिबलात् 'अत इञ्' (६।१।३१) - बाह्लादित्वाद्वा इप्र० । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।
___णश्च विश्रवसो विश्लुक् च वा ॥ ६।१।६५ ॥ [णश्च] ण प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । [विश्रवसः] विश्रवस् पञ्चमी ङसि - षष्ठी ङस् वा । [विश्लुक्] विशो लुक् = विश्लुक । प्रथमा सि । [च] च प्रथमा सि । [वा] वा प्रथमा सि ।
[वैश्रवणः] विश्रवस् । विश्रवसोऽपत्यं = वैश्रवणः । अनेन अण्प्र० → अ - स्० → ण् । 'वृद्धि: स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० ऐ ।
[रावणः] विश्रवसोऽपत्यम् । अनेन अण्प्र० → अ -स्० → ण् - विश्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अण् सिद्ध एवादेशार्थं वचनम् । एवमुत्तरत्र छ।।
__ सङ्ख्या-सं-भद्रान्मातुर्मातुर्च ॥ ६।१।६६ ॥ [सङ्ख्यासंभद्रात् ] सङ्ख्या च सम् च भद्रश्च = सङ्ख्यासंभद्रम् , तस्मात् । [मातुः ] मातृ पञ्चमी ङसि - षष्ठी ङस् वा । 'ऋतो डुर्' (१।४।३७) ङसि० - ङस् → डु० → उ० | [मातुर् ] मातुर् प्रथमा सि । 'दीर्घङ्याब् - व्यञ्जनात् से:' (१।४।४५) सिलुक् । [च] च प्रथमा सि ।
[द्वैमातुरः] द्वि - मातृ । द्वयोर्मात्रोरपत्यं = द्वैमातुरः । 'संख्या समाहारे०' (३।१।९९) तद्धितविषये द्विगुः । अनेन अण्प्र० → अ - मातृ → मातुरादेशश्च । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० ऐ । _ [षाण्मातुरः] षष् - मातृ । षण्णां मातॄणामपत्यम् । अनेन अण्प्र० → अ - मातुरादेशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ ।धुटस्तृतीयः' (२।१७६) ९० → ड्० । तृतीयस्य पञ्चमे' (१।३।१) ड्स्थान्यासन्नाः ण् ।