________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[शातमातुरो भरतः ] शत - मातृ । शतस्य माता = शतमाता, तस्या अपत्यं = शातमातुरः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । भरत प्रथमा सि ।
- [सांमातुरः] सम् - मातृ । सङ्गता माता = संमाता । 'प्रात्यव०' (३।१।४७) समासः । संमातुरपत्यं = सांमातुरः । अनेन अण्प्र० → अ - "मातुर्" देशश्च । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ ।
[भाद्रमातुरः] भद्राया भद्रस्य वा माता = भद्रमाता । 'परत: स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुंवत् । भद्रमातुरपत्यं = भाद्रमातुरः । अनेन अण्प्र० → अ - "मातुर्" देशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ ।
[द्वैमात्रः] द्वि - मातृ । द्वयोर्मात्रोरपत्यं = द्वैमात्रः । 'ङसोऽपत्ये' (६।१२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । रत्वम् । नन्वत्र णिति तद्धिते 'नामिनोऽकलि - हलेः' (४।३।५१) इति वृद्धिः कथं न भवति ? उच्यते - तक्रकौण्डिन्यन्यायेन णिति तद्धिते स्वर इति आदेरेव वृद्धिः, न तु 'नामिनोऽकलि - हलेः (४।३।५१) इत्यन्तस्य । यद्वा आख्यात - कृत्प्रकरणमेकमेव तत्साहचर्यादत्र प्रकरणे यत्सूत्रं तद्विहितप्रत्ययो गृह्यते, अयं तु भिन्नप्रकरणविहितः ।
[सौमात्रः] सुष्ठ - शोभना माता = सुमाता, सुमातुरपत्यं = सौमात्रः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । रत्वम् ।
[वैमात्रेयः] विमातुरपत्यं = वैमात्रेयः । 'शुभ्रादिभ्यः' (६।१।७३) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृ० ऐ । रत्वम् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
__ अदोनदी - मानुषीनाम्नः ।। ६।१।६७ ॥ [अदोः] न दुः = अदुः । 'नजत्' (३।२।१२५) न० → अ०, तस्मात् ।
[नदीमानुषीनाम्नः] नदी च मानुषी च = नदीमानुष्यौ, तयो म = नदीमानुषीनाम, तस्मात् । 'अनोऽस्य' (२।१।१०९) अलुक् ।
एयणोऽपवादः ।
[ यामुनः प्रणेता] यमुना । यमुनाया अपत्यं = यामुनः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रणयतीति प्रणेता - हृदस्य नाम ।
[ऐरावतः उद्ध्यः ] इरा । इरा जलमत्रास्ति = इरावती । नद्यां मतुः' (६।२।७२) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । उद्ध्य प्रथमा सि ।
[वैतस्तः पलालशिराः] वि 'तसूच् उपक्षये' (१२२८) तस् । वितस्यति पापम् । 'दम्यमि - तमि - मा - वा - पू - धू - गृ - जू - हसि - वस्यसि - वितसि - मसीण्भ्यस्तः ' (उणा० २००) तप्र० । वितस्ताया अपत्यं = वैतस्तः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । पलालवच्छिरोऽस्य स धवलत्वात् । प्रथमा सि । 'अभ्वादेरत्वस: सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब् - व्यञ्जनात् सेः' (१।४।४५) सिलुक् । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[नार्मदो नीलः] नर्मन् 'दोंच छेदने' (११४८) दो । 'आत् सन्ध्यक्षरस्य' (४।२।१) दा । नर्माणि द्यति - खण्डयति । 'आतो डोऽह्वा - वा - मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११८) अन्त्यस्वरादिलोपः । नर्मदाया अपत्यं = नार्मदः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । नील प्रथमा सि ।