________________
षष्ठाध्यायस्य प्रथमः पादः ॥
४५
[दौर्योधनिः] दुःखेन युध्यते । 'शासू - युधि०' (५।३।१४१) अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । दुर्योधनस्यापत्यं = दौर्योधनिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[यौधिष्ठिरिः] युधिष्ठिरस्यापत्यं = यौधिष्ठिरिः । 'बाह्वादि०' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[आर्जुनिः] अर्जुनस्यापत्यम् = आधुनिः । 'बाह्वादि०' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते.' (१।३।५३) विसर्गः ॥छ।।
कन्या - त्रिवेण्याः कनीन - त्रिवणं च ॥ ६।१।६२ ।। [कन्यात्रिवेण्याः] कन्या च त्रिवेणी च = कन्यात्रिवेणी, तस्याः = कन्यात्रिवेण्याः । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् ।
[कनीनत्रिवणम् ] कनीनश्च त्रिवणश्च = कनीनत्रिवणम् । [च ] च प्रथमा सि ।
[कानीनो व्यासः, कर्णश्च] कन्याया अपत्यं = कानीनः । अनेन अण्प्र० → अ - कन्या → कनीनादेशः । उपचारात् देवताप्रभावाद्वा कन्याया अपि कदापि अपत्यसम्भवो घटते ।
[त्रैवणः] त्रिवेणी । त्रिवेण्या अपत्यं = त्रैवणः । अनेन अण्प्र० → अ - त्रिवेणी → त्रिवणादेशः । 'झ्याप्त्यूङ :' (६।१७०) एयणोऽपवादः ॥छ।।
शुङ्गाभ्यां भारद्वाजे ॥ ६।१।६३ ॥ [शुङ्गाभ्याम्] शुङ्गश्च शुङ्गा च = शुङ्गौ, ताभ्याम् = शुङ्गाभ्याम् । 'पुरुषः स्त्रिया' (३।१।१२६) पुरुषः शिष्यते । [भारद्वाजे] भारद्वाज सप्तमी ङि।
[शौङ्गो भारद्वाजः] शुङ्गस्य शुङ्गाया वा अपत्यं = शौङ्गः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अ-आलुक् । भरद्वाजस्यापत्यं = भारद्वाजः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शौङ्गिः, शौनेयश्चान्यः ] शुङ्ग - शुङ्गा । शुङ्गस्य शुङ्गाया अपत्यं = शौङ्गिः - शौङ्गेयः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'द्विस्वरादनद्याः' (६।१७१) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अ - आलुक् ।
__ 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या० सं० वक्ष० (१)/सूत्र (१६)) इति सिद्धे परत्वात् 'द्विस्वरादनद्याः' (६१७१) इत्येयण प्राप्नोति, तद्बाधनार्थं द्विवचनेन स्त्रीलिङ्गः शुङ्गाशब्द उपादीयते ॥छ।।
विकर्णच्छगलाद्वात्स्या-ऽऽत्रेये ॥ ६।१।६४ ॥ [विकर्णच्छगलात् ] विकर्णश्च छगलश्च = विकर्णच्छगलम् तस्मात् ।