________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[प्रातिवाहनः] प्रतिवाहनस्यापत्यं = प्रातिवाहनः ।
[औदारः] उदारस्यापत्यम् = औदारः । अनेन अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
अन्धक - [श्वाफल्कः] श्वफल्कस्यापत्यं = श्वाफल्कः ।
[रान्ध्रसः] रन्ध्र 'षोंच अन्तकर्मणि' (१९५०) षो । 'षः सोष्ट्यै - ष्ठिव - ष्वष्कः' (२।३।९८) सो । 'आत् सन्ध्यक्षरस्य' (४।२।१) सा । रन्ध्राणि स्यति - अन्तं नयति । 'आतो डोऽह्वा - वा - मः' (५।११७६) डप्र० । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । रन्ध्रसोऽपत्यं = रान्ध्रसः ।
[चैत्रकः] चित्रकस्यापत्यं = चैत्रकः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
कुरु - [नाकुलः] न विद्यते कुलमस्य । 'नखादयः' (३।२।१२८) नकुलनिपातः । नकुलस्यापत्यं = नाकुलः ।
[साहदेवः ] सह 'दिवूच क्रीडा - जयेच्छा - पणि - द्युति - स्तुति - गतिषु' (११४४) दिव् । कुलेन सह दीव्यतीति सहदेवः । 'अच्' (५।११४९) अच्प्र० → अ। 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । सहदेवस्यापत्यं = साहदेवः ।
[दौःशासनः ] दुर् 'शासूक् अनुशिष्टौ' (१०९५) शास् । दुःखेन शास्यते । शासू - युधि - दृशि - धृषि - मृषाऽऽतोऽनः' (५।३।१४१) अनप्र० । दुःशासनस्यापत्यं = दौःशासनः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[दौर्योधनः] दुर् 'युधिंच् सम्प्रहारे' (१२६०) युध् । दुःखेन युध्यते । 'शासू - युधि०' (५।३।१४१) अनप्र० । 'लघोरुपा०' (४।३।४) गु० ओ । दुर्योधनस्यापत्यं = दौर्योधनः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । _ [आत्रेयः] अत्रि । अत्रेरपत्यम् = आत्रेयः । 'इतोऽनिञः' (६।११७२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[जातसेन्यः, जातसेनिः] जातां सेनायां यः सः = जातसेनः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वः । जातसेनस्यापत्यम् । 'सेनान्त - कारु-लक्ष्मणादिञ् च' (६।१।१०२) ज्यप्र० → य - इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[औग्रसेन्यः, औग्रसेनिः] उग्रा सेना यस्य सः = उग्रसेनः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । उग्रसेनस्यापत्यम् = औग्रसेन्यः - औग्रसेनिः । 'सेनान्त०' (६।१।१०२) ज्यप्र० → य - इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
वृष्णि - [वैष्वक्सेन्यः, वैष्वक्सेनिः] विष्वक् सेनायां यस्य सः = विष्वक्सेनः । विष्वक्सेनस्यापत्यं = वैष्वक्सेन्यः, वैष्वक्सेनिः । 'सेनान्त - कारु०' (६।१।१०२) ञ्यप्र० → य - इप्र० → इ । 'वृद्धिः स्वरे० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
कुरु - [भैमसेन्यः, भैमसेनिः] भीमा सेना यस्य सः = भीमसेनः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । भीमसेनस्यापत्यं = भैमसेन्यः - भैमसेनिः । 'सेनान्त - कारु०' (६।१।१०२) ज्यप्र० → य - इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः ।