________________
षष्ठाध्यायस्य प्रथमः पादः ॥
४३
[प्रौष्ठः] प्रोष्ठस्यापत्यं = प्रौष्ठः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[प्रौष्ठिकः] प्र - ओष्ठ । प्रवृद्धावोष्ठौ यस्य सः = प्रौष्ठः । 'वौष्ठौतौ समासे' (१।२।१७) अलुक् । प्रोष्ठावस्य स्तः = प्रोष्ठिकः । 'अतोऽनेकस्वरात्' (७२।६) इकप्र० । प्रोष्ठिकस्यापत्यं = प्रौष्ठिकः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।।
[जम्ब] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायते = जम्ब । 'तुम्ब-स्तम्बादयः' (उणा० ३२०) 'जम्ब'निपातः ।
[कुथार ] कुथ 'ऋक् गतौ' (११३५) ऋ । कुथमियति = कुथारः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'नामिनोऽकलि - हलेः' (४।३।५१) वृ० आर् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[ककुस्थ] कु । 'अव्ययस्य को द् च' (७।३।३१) इति अप्र० - ककु । कुत्सितं तिष्ठन्ति विपक्षा अस्मिन् = ककुस्थः । 'आतो डोऽह्वा - वा - मः' (५।१७६) डप्र० → अ । ' डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ।
[कहूय ] क 'डेंग् स्पर्धा - शब्दयोः' (९९४) ह्वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । कं ह्वयतीति क्विप् । यजादि - वचेः किति (४।१।१०९) य्वृत् व० → उ० । 'दीर्घमवोऽन्त्यम्' (४।१।१०३) दीर्घः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । कहूं यातीति कहूयः । 'आतो डोऽह्वा - वा - मः' (५।११७६) डप्र० → अ । 'डित्यन्त्य०' (२२१२११४) आलुक् ॥छ।।
ऋषि - वृष्ण्यन्धक - कुरुभ्यः ॥ ६।१।६१ ॥ [ऋषिवृष्ण्यन्धककुरुभ्यः ] ऋषयश्च वृष्णयश्च अन्धकाश्च कुरवश्च = ऋषिवृष्ण्यन्धककुरवः, तेभ्यः । ऋषयो
सष्ठादयः अपत्ययोगात् । वृष्णयः - अन्धकाः - कुरवश्च प्रसिद्धा वंशाख्याः क्षत्रियाः । वंशेन आख्या येषां ते ।
अत इञोऽपवादः ।
ऋषि - [वासिष्ठः ] वसिष्ठस्यापत्यं = वासिष्ठः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वैश्वामित्रः] विश्वामित्रस्यापत्यं = वैश्वामित्रः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गौतमः] गो 'तमूच् काङ्खायाम्' (१२३२) तम् । गास्ताम्यतीति गौतमः । 'कर्मणोऽण्' (५।११७२) अण्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अमोऽकम्यमि - चमः' (४।२।२६) हस्वः । गोतमस्यापत्यं = गौतमः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
वृष्णि - [वासुदेवः] वसुदेवस्यापत्यं = वासुदेवः ।
[आनिरुद्धः] न निरुध्यते स्म । 'क्त - क्तवतू' (५।१।१७४) क्तप्र० → त । 'अधश्चतुर्थात् तथोर्धः (२।११७९) त० → ध० । 'तृतीयस्तृतीय - चतुर्थे' (१।३।४९) ध० → द० । अनिरुद्धस्यापत्यम् = आनिरुद्धः ।
[वाज्रः] वज्रस्यापत्यं = वाज्रः । ज शिवादिगणे प्रौष्ठशब्दोऽस्ति । श० म० न्या०- प्रगतौ प्रवृद्धौ वौष्ठौ यस्य सोऽयं प्रौष्ठस्तस्यापत्यमपि प्रौष्ठः । जब शिवादिगणे पौष्ठिकशब्दोऽस्ति । श० म० न्या० - प्रवृद्धावोष्ठौ यस्य सोऽयं प्रौष्ठिकस्तस्यापत्यमपि प्रौष्ठिकः ।