________________
४२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[शारद्वतायनो भार्गवः] शरद्वत् । शरद्वतोऽपत्यं वृद्ध भार्गवश्चेत् = शारद्वतायनः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृ० आ । भृगोरपत्यं = भागवः । 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० → अ।
[शारद्वतोऽन्यः] शरद्वतोऽपत्यं वृद्धं = शारद्वतः । “विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ ।
[शौनकायनो वात्स्यः] शुनकस्यापत्यं वृद्धं वात्स्यश्चेत् = शौनकायनः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । वत्सस्यापत्यं वृद्धं = वात्स्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य ।
[शौनकोऽन्यः ] शुनकस्यापत्यं वृद्धम् । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
जीवन्त-पर्वताद्वा ॥ ६।१।५८ ॥ [जीवन्तपर्वतात्] जीवन्तश्च पर्वतश्च = जीवन्तपर्वतम्, तस्मात् । [वा] वा प्रथमा सि ।
[जैवन्तायनः] जीवन्तस्यापत्यं वृद्धं = जैवन्तायनः । अनेन आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[जैवन्तिः ] जीवन्तस्यापत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० ऐ। 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।।
[पार्वतायानः ] पर्वन् । पर्वाण्यत्र सन्ति । 'मरुत् - पर्वणस्तः' (७।२।१५) तप्र० । पर्वतस्यापत्यं वृद्धम् । अनेन आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [पार्वतिः] पर्वतस्यापत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० → इ। 'वृद्धि: स्वरे०' (७।४।१) वृ० आ ॥छ।।
द्रोणाद्वा ॥ ६।१।५९ ॥ [द्रोणात् ] द्रोण पञ्चमी ङसि । [वा] वा प्रथमा सि । योगविभागाद्वृद्ध इति निवृत्तम् ।
[द्रौणायनः, द्रौणिः ] द्रोणस्यापत्यं = द्रौणायनः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । अन्यत्र 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।।
शिवादेरण् ॥ ६।१।६० ॥ [शिवादेः ] शिव आदिर्यस्य सः = शिवादिः, तस्मात् । [अण्] अण् प्रथमा सि ।
[शैवः] शिवस्यापत्यं = शैवः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।