________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[च] च प्रथमा सि ।
[क्रौष्टायनः] 'क्रुशं आह्वान-रोदनयोः' (९८६) क्रुश् । क्रोशतीति । 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसिमसि-सच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' (उणा० ७७३) तुन्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'यज - सृज - मृज - राज - भ्राज - भ्रस्ज - व्रस्च - परिव्राजः शः षः' (२।१।८७) श० → ष० । 'क्रुशस्तुनस्तृच् पुंसि' (१।४।९१) तुन् → तृजादेशः । क्रोष्टुरपत्यं वृद्धं = क्रौष्टायनः । अनेन आयनणप्र० → आयन - अन्तस्य ऋकारस्य च लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[शालङ्कायनः] शलङ्क । शलङ्कोरपत्यं वृद्धम् । अनेन आयनण्प्र० → आयन-अन्तस्य उकारस्य च लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।। दर्भ-कृष्णा-ऽग्निशर्म-रण-शरद्वच्छुनकादाग्रायण-ब्राह्मण-वार्षगण्य-वाशिष्ठ-भार्गव-वात्स्ये ॥६।१।५७॥
[दर्भकृष्णाऽग्निशर्मरणशरद्वच्छुनकात् ] दर्भश्च कृष्णश्च अग्निशर्मा च रणश्च शरद्वच्च शुनकश्च = दर्भकृष्णाऽग्निशर्मरणशरद्वच्छनकम्, तस्मात् ।
[आग्रायणब्राह्मणवार्षगण्यवाशिष्ठभार्गववात्स्ये] आग्रायणश्च ब्राह्मणश्च वार्षगण्यश्च वाशिष्ठश्च भार्गवश्च वात्स्यश्च = आग्रायणब्राह्मणवार्षगण्यवाशिष्ठभार्गववात्स्यम्, तस्मिन् ।
[दार्भायण आग्रायणश्चेत् ] दर्भ । दर्भस्यापत्यं वृद्धं आग्रायणश्चेत् = दार्भायणः । अनेन आयनण्प्र० → आयन । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[दाभिरन्यः ] दर्भस्यापत्यं = दाभिः । दर्भादिभ्यः पक्षेम 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० सर्वत्र । 'वृद्धिः स्वरे०' (७४।१) । वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[कार्णायनो ब्राह्मणः] कृष्णस्यापत्यं वृद्धं ब्राह्मणश्चेत् = कार्णायनः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कार्ष्णिरन्यः ] कृष्णस्यापत्यं = कार्णिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० ।
[आग्निशर्मायणो वार्षगण्यः ] अग्निशर्मन् । अग्निशर्मणोऽपत्यं वृद्धं वार्षगण्यश्चेत् = आग्निशर्मायणः । अनेन आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । वृषगणस्यापत्यं वृद्धं = वार्षगण्यः। 'गर्गादेर्यञ्' (६।१२४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आग्निशर्मिरन्यः] अग्निशर्मणोऽपत्यम् । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० । शेषं पूर्ववत् ।
[राणायनो वासिष्ठः] रण । रणस्यापत्यं वृद्धं वासिष्ठश्चेत् = राणायनः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । वसिष्ठस्यापत्यं = वासिष्ठः । 'ऋषि - वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ ।
[राणिरन्यः ] रणस्यापत्यं = राणिः । 'बाह्वादि०' (६।१।३२) इप्र० ।
ॐ श० म० न्या० - 'अत इज्' (६।१।३१) इप्र० ।