________________
४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[औदुम्बरः, औदुम्बरायणिः] उदुम्बराणां राजा = औदुम्बरिः । 'साल्वांश-प्रत्यग्रथ०' (६।१।११७) इञ्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णवर्णस्य' (७४/६८) अलुक् । औदुम्बरेरपत्यम् = औदुम्बरः । 'ङसोऽपत्ये (६।१।२८) अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'अवृद्धाद् दोर्नवा' (६।१।११०) द्वितीये आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[गार्गेयः] गर्ग । गर्गस्यापत्यं वृद्धम् । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । गार्या अपत्यं = गार्गेयः । 'ड्याप्त्यूङः' (६।१।७०) एयणप्र० → एय । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[दाख्यः ] दक्षस्यापत्यं वृद्धम् । 'अत इञ्' (६।१।३१) इञ्प्र० । 'वृद्धिः स्वरे.' (७४।१) वृ० आ । 'नुर्जातेः' (२।४।७२) ङी । ('इज इतः' (२।४।७१) ङी) । दाक्ष्या अपत्यं = दाक्षेयः । 'झ्याप्त्यूङः' (६।१।७०) एयणप्र० → एय । 'अवर्णवर्णस्य' (७४/६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१२३५३) विसर्गः ॥छ।
हरितादेरञः ॥ ६११५५ ॥ [हरितादेः ] हरित आदिर्यस्य सः = हरितादिः, तस्मात् । [अञ्] अञ् प्रथमा सि । विदाद्यन्तर्गणो हरितादिः ।
[हारितायनः ] हरितस्यापत्यं वृद्धं = हारितः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । हारितस्यापत्यं युवा = हारितायन: । अनेन आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[कैन्दासायनः] कुत्सितो दासः = किन्दासः । किन्दासस्यापत्यं वृद्धं = कैन्दासः । 'विदादेर्वृद्धे' (६।१।४१)
० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । कैन्दासस्यापत्यं युवा । अनेन आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वैदः ] विद । विदस्यापत्यं वृद्धं = वैदः । 'विदादेर्वृद्धे' (६।११४१)अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वैदस्यापत्यं युवा = वैदः । 'अत इञ्' (६।१।३१) इप्र० । 'जिदार्षादणिोः ' (६।१।१४०) इञ्लुप् ।
[हारितः] हरितस्यापत्यं वृद्धं = हारितः । अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यूनीति अर्थ उभयपदे स्थितः ॥छ।।
कोष्ट-शलङ्कोर्लुक् च ॥ ६।१।५६ ॥ [क्रोष्टशलङ्कोः ] क्रोष्टा च शलङ्कश्च = कोष्टशलङ्क, तस्मात् । [लुक् ] लुक् प्रथमा सि ।।
॥ श० म० न्या० - हरित आदौ यस्य सोऽयं गणो हरितादिः । जी हैमप्रकाशे - किमपि दासते ।