________________
षष्ठाध्यायस्य प्रथमः पादः ॥
३९
[नाडिः] नडस्यापत्यमनन्तरं = नाडिः । बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
णकारो वृद्ध्यर्थः । द्वीपा इति स्त्रीलिङ्गपाठः । पुल्लिङ्गेऽयं चरितार्थः । एयणा बाध्येत इति तद्बाधनार्थः ।
अन्यच्च 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् (न्या० सं० वक्ष० (१) सूत्र (१६) ) इति परिभाषया अन्येषां स्त्रीलिङ्गे प्राप्तस्य निषेधः, तेनान्येषां स्त्रीलिङ्गे यथाप्राप्तमेव । [मिमत ] मीश्चासौ मतश्च = मिमतः । बहुलं ह्रस्वः ॥छ।।
यञिञः ॥ ६।१।५४ ॥ [यजिञः] यञ् च इञ् च = यजिञ्, तस्मात् । 'वृद्धाद् यूनि' (६।१।३०) इति वचनाद् यूनीति लभ्यते ।
[गाायणः] गर्ग । गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गार्ग्यस्यापत्यं युवा = गाायणः । अनेन आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वात्स्यायनः] वत्स । वत्सस्यापत्यं वृद्धम् । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वात्स्यस्यापत्यं युवा = वात्स्यायनः । अनेन आयनण्प्र० → आयन । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[दाक्षायणः] दक्ष । दक्षस्यापत्यं वृद्धं = दाक्षिः । 'अत इब्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दाक्षेरपत्यं युवा = दाक्षायणः । अनेन आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् ।
[प्लाक्षायणः] प्लक्ष । प्लक्षस्यापत्यं वृद्धं - प्लाक्षिः । 'अत इब्' (६।१।३१) इप्र० → इ । प्लाक्षेरपत्यं युवा = प्लाक्षायणः । अनेन आयनणप्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[औदुम्बरायणः] उदुम्बर । उदुम्बरस्य राज्ञोऽपत्यं वृद्धम् = औदुम्बरिः । 'साल्वांश - प्रत्यग्रथ-कलकूटाश्मकादिञ्' (६।१।११७) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । औदुम्बरेरपत्यं युवा = औदुम्बरायणः । अनेन आयनणप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[तैलखलायनः] तिलखल । तिलखलस्य राज्ञोऽपत्यं वृद्धं = तैलखलिः । 'साल्वांश-प्रत्यग्रथ०' (६।१।११७) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । तैलखलेरपत्यं युवा = तैलखलायनः । अनेन आयनप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक्।
वृद्धविहितस्येत्रो ग्रहणादिह न भवति
ॐ श० म० न्या० - 'अत इज्' (६।१।३१) इप्र० ।