________________
३४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[बाभ्रव्यः कौशिकः] बभ्रु । बभ्रोरपत्यं वृद्धं कौशिकः = बाभ्रव्यः । अनेन यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[बाभ्रवोऽन्यः] बभ्रोरपत्यं = बाभ्रवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
बोर्गर्गादिपाठाद्यजि सिद्ध कौशिके नियमार्थं वचनम् । गर्गादिपाठस्तु लोहितादिकार्यार्थः, तेन
[बाभ्रव्यायणी] बभ्रोरपत्यं वृद्धं स्त्री कौशिकी । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृ० आ । 'यो डायन् च वा' (२।४।६७) ङी - डायन्० → आयन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । 'र-वर्णान्नो ण०' (२।३।६३) णत्वम् ।छ।।
कपि-बोधादाङ्गिरसे ॥ ६।१।४४ ॥ [कपिबोधात् ] कपिश्च बोधश्च = कपिबोधम्, तस्मात् ।
[आङ्गिरसे] अङ्गिरसोऽपत्यमाङ्गिरसः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।११६१) अण्प्र० । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृ० आ, तस्मिन् ।
[काप्यः] कपि । कपेरपत्यं वृद्धमाङ्गिरसः = काप्यः । अनेन यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृ० आ। 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
[बौध्यः] बोध । बोधस्यापत्यं वृद्धमाङ्गिरसः = बौध्यः । अनेन यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ___ [कापेयः ] कपेरपत्यं वृद्धम् । 'इतोऽनिञः' (६।१।७२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) । वृ० आ। 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । __ [बौधिः ] बोधस्यापत्यम् । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
कपिशब्दो गर्गादिषु पठ्यते, तस्येहोपादानं नियमार्थम्-आङ्गिरस एव यञ् नान्यत्रेति । लोहितादिकार्यार्थश्च गणपाठः ।
[काप्यायनी] कपेरपत्यं वृद्धं स्त्री । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । 'लोहितादिशकलान्तात्' (२।४।६८) ङी० → ई० - डायन्० → आयन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् ।
[माधवी, माधव्यायनी] मधोरपत्यं वृद्धं स्त्री ब्राह्मणी = माधवी - माधव्यायनी । अनेनैव पदेन साध्यः । 'यत्रो डायन् च वा' (२।४/६७) ङी - डायन्० → आयन्० विकल्पेन । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् ।
[बौधी, बौध्यायनी] बोधस्यापत्यं वृद्धं स्त्री = बौधी-बौध्यायनी । अनेनैव पदेन साध्यः । 'यो डायन् च वा' (२।४।६७) ङी० - डायन्० → आयन्० विकल्पेन । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् ॥छ।।
वतण्डात् ।। ६।१।४५ ॥ [वतण्डात् ] 'वन भक्तौ' (३२९) वन् । वन्यते-सेव्यते = वतण्डः । 'वनेस्त च' (उणा० १७५) अण्डप्र० - न० →त०, तस्मात् ।